________________
न्यायमञ्जरी [विधिप्रत्ययस्यावश्यकता] *किमर्थं पुनविधिराश्रीयते ? वर्तमानापदेशिष्वप्याख्यातेषु-भावना तीयत इति दर्शितवान् भवान् । अतः किं विधिना? तस्य शीश्चयणं स्वर्गयागयोः साध्य साधनभावबोधनाय; प्रवृत्तिनिवृत्तिलिद्धये वा? साध्यसाधनसम्बन्धस्तावत् आकाडक्षा-सन्निधि-योग्यता-पर्यालोचनया वर्तमानापदेशिनोऽप्याख्यातात् भावनावगमे सति भवत्येवान्तरेणापि . वधिम् ॥
प्रवृत्तिरपि पुरुषेच्छानिबन्धना स्वर्गस्य साध्यत्वे, यागस्य साधनत्वेsवधारिते, यः स्वर्गमिच्छेत् स तसिद्धये प्रवर्तेतैव। यस्तु नेच्छेत् तस्य विधिरपि किंकुर्यात् ? न ह्यप्रवर्तमानस्य पुंसः विधिले पाशं निदधातिः । रज्वा वा बाहू बध्नाति। निषेधाधिकारेऽपि सुरापानब्राह्मणहननादे . प्रत्यवायसाधनत्वावधारणात् तत्परिजिहीर्षया निवृत्तिर्भवति, न विधितः । यस्तु प्रत्यवायान्न बिभेति, स विधावपि श्रुते न निवर्तत एवेति । तस्मात् प्रवत्ति निवृत्त्योर्न कारणं विधिरिति तदर्थमपि तदाश्रयणमसांप्रतम् ॥
[विधिस्वरूपविमर्श:] कश्चायं विधिर्नामेत्येतदपि न विद्मः। ननु चाहुःविधेर्लक्षणमेतावदप्रवृत्तप्रवर्तनम्। अतिप्रसङगदोषण नाज्ञातज्ञापनं विधिः ॥
* यदि भावना आख्यातार्थः पुरुषप्रेरिका, तर्हि 'जुहुयात्' इत्यादि विधिप्रत्ययस्य का आवश्यकता इत्यर्थः॥
लडाख्यातात् ॥ * ज्ञातेऽप्यर्थे राजाज्ञादिना प्रवृत्तिदर्शनात् ॥
1 साधना-ख,
निगडे पदं-ख,
३ पुरुषो निवर्ततेति प्रवृत्ति-ख