SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 90 न्यायमञ्जरी . स्वर्गादिसाध्य संबन्धादलब्ध्वा साध्यताऽन्वयम् । यजिस्तदानुगुण्येन करणांशेऽवतिष्ठते ॥ स्वर्गस्य हि काम्य'मानत्वेन प्रोत्यात्मकत्वेन चानन्यार्थत्वात् साध्यतायां, योग्यत्वात् किमित्यंशोपनिपाते सिद्ध तत्रालब्धनिवेशो यजिः तदपेक्षितां करणतामेव योग्यत्वादवलम्बते ॥ *सामानाधिकरण्यं च ज्योतिष्टोमादिभिः पदैः । एवं सत्युपपद्येत करणत्वानुवादिभिः ।। कर्मनामधेयत्वं च ज्योतिष्टोमादीनां शब्दानामुक्तम् ॥ 1.. - [साध्यस्य भागस्य करणत्वसंभवः] ननु साध्यत्वपक्षसाक्षितामपि कर्मनामधेयानि भजन्ते–'अग्निहोत्रं जुहोति' इति नैषदोषः-साध्य एव भवन भावार्थः साधनतामवलम्बते । तत्रापि हि स्वर्गभावनायामग्निहोत्राख्यो होमः करणमेव, अन्यथा स्वर्गकामपदानन्वयप्रसङगात् इत्युक्तम्। नामधेयपदं तु कर्मतामनवदति किंचित् करणताम्; 'अग्निहोत्रं' इत्यादि, 'ज्योतिष्टोमेन' इति। तस्मात् यजेः करण त्वेनैवान्वय इति सिद्धम् ॥ ___ यत्तु प्रत्यासन्नत्वात् साध्यांशोपनिपातितेत्युच्यते-तदयुक्तम्योग्यत्वविरोधिनी 'प्रत्यासत्तिः संबन्ध कारणम्, न तद्विपरिता। योग्यत्वं च स्वर्गस्यैव साध्यतायां, यजेश्च करणतायामित्युक्तम् ॥ * सामानाधिकरण्यं—'ज्योतिष्ठोमेन' इति हि तृतीया स्पष्टं श्रूयते ।। 'अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादौ ॥ ३ मानत्वात्-ख. ३ कारण-ख, 1 स्वर्गे साध्यत्व-क. • प्रतिपत्ति-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy