________________
पञ्चममाह्निकम्
89 प्रत्ययार्थ इति सोढमायुष्मता, यागेनेत्यभिसम्बन्धः सोढव्य एव । यो हि तस्यां यथा सम्बद्धं योग्यः तमसौ तथा प्रत्येष्यति', नान्यथेति करणाकाङक्षापरिपूरणेन सम्बन्धयोग्यो यजिरिति तथैवैष भावनयाऽभि सम्बध्यते ॥
[यागस्य करणत्वं शब्दसामर्थ्यलभ्यम् ] अप्रातिपदिकत्वाद्धि तृतीया तत्र मा स्म भूत् ।
शब्दसामर्थ्यलभ्या तु नूनं कारणता यजः ॥ कस्य पनश्शब्दस्य सामर्थ्यमेतत् ? भावनावाचिन इति-ब्रूमः-- तृतीययैव कारणत्वमभिधानीयमिति नेयं राजाज्ञा। ततस्तदवगतेस्तु तथाऽभ्युपगम्यते। एवमिहापि 'स्वर्गकामो यजेत' इति तथाऽवगति. भवन्ती किमिति 'न मृष्यते ?
आख्यातात् साध्यता या च धात्वर्थस्यावगम्यते। . . द्वितीया श्रूयते तत्र किं वा तदभिधायिनी ?
.. [यागस्य करणत्वौचित्यम् ] ननु एवं तर्हि धात्वर्थस्य साध्यताऽवगतः किमित्यंशे यजिना पति. तव्यम्-'कि भावयेत् ?; 'यागम्'। केनेत्यपेक्षिते वाक्यान्तर सम पितं 'बीहिभिः' इत्यादि सम्बध्यताम् ; न पुनर्यजेः साध्यरूपव्यापारा. भिधायिप्रत्ययोपसर्जनीभतकर्मतां अतिप्रत्यासन्नामनारुह्य दरवतिनी करणतामधिरोढुमर्हति–उच्यते-स्यादेतदेवं, यदि हि 'स्वर्गकामः' इति न श्रूयेत। तस्मिस्तु श्रुते नैवं भवितुमर्हति । कुतः ?
* ततः-यत्र तृतीया श्रूयते, ततः ॥
1 प्रतीक्षते-ख,
मृष्यते-क,
समाहित-ख.