________________
88
न्यायमञ्जरी [ भावनाया अंशत्र्यविशिष्टत्वम् ] सा धातोः प्रत्ययाद्वाऽपि भावनाऽवगता सती।
अपेक्षतेऽशत्रितयं किं केन कथमित्यदः ॥ 'भावयेत्' इत्यवगते नूनमपेक्षात्रयं भवति–किं भावयेत् ? केन भावयेत् ? कथं भावयेत् ? इति ॥
तत्र किमित्यपेक्षा स्वर्गकामपदेन पूर्यते-किं भावयेत् ? 'स्वर्ग' इति ॥
ननु ! 'स्वर्गकामः' इति पुरुषनिर्देशोऽयं, न फलनिर्देशः-सत्यम् , स्वर्गपरस्त्वयं निर्देशः। उक्तं हि निरतिशयप्रीतिवचनः स्वर्गशब्दः । प्रीतिश्च यान्नार्थेत्यप्युक्तम्। साध्यत्वेन च स्वर्गः काम्यत इति स एव हि किमित्यंशे निपतति 'स्वर्ग भावयेत्' इति । 'स्वर्ग कामयते' इति च व्यत्पत्तौ विस्पष्टमेव तस्य साध्यत्वम् । बहुव्रीहावपि तस्यैव साध्यत्वं विधिवृत्तपर्यालोचनयाऽवधार्यते ॥
[करणाकाङ्क्षाविवरणम्] एवं 'स्वर्ग भावयेत्' इत्यवगते. 'केन भावयेत्' इत्यपेक्षायां, यागे. नेति सम्बध्यते ॥ ___ ननु! 'यागेन' इति न श्रूयते, किन्तु 'यजेत' इति। तच्चाख्यातपदं प्रकृतिप्रत्ययात्मकसमुदायरूपम्। तत्र ङि प्रत्ययस्य' भावना वाच्येत्युक्तम्। 'यज्' इति धातुमात्रमवशिष्टम्। तस्य कृदन्तस्य तृतीयान्तस्य यागेनेति योऽर्थः स कथमेकाकिना *तेन प्रत्याय्यत-उच्यते-भावना चेत्
* तेन-केवलधातुगा ॥
1 इत्यवगम्यते-क,
प्रत्ययार्थस्य-ख,