________________
पञ्चममाहिकम्
___87 यथा हि शाबलेयादिष्वनुगतं च गोरूपमवभासते, व्यावृत्तं च शाबलेयादिरूपं, एवमिहापि यागादिकर्मणामनुगतं च व्यापाररूपं प्रतिभासते परस्परविभक्तं च यागादिरूपम् । यत् तदनुगतं व्यापाररूपं, सा भावना। यथा च शाबलेयाद्यननुरक्तं पृथक्त्वेन गोत्वं दर्शयितुमशक्यम् । . तदुपरक्तत्वेन तस्य सर्वदाऽवगमात् । न चैतावता तस्य नास्तित्वम् , 'सुख-दुःखाद्यवस्थानुगतस्येवात्मनः ।।
तथा च किं करोति, इत्यनवगतविशेषव्यापारसामान्यप्रश्ने सति, 'पचति' 'पठति' इति तद्विशेषोत्तरवचनं अनुगुणं भवतीति। तच्च सामान्यरूपमपि न गोत्वादिवत्, क्रियात्ववद्वा सिद्धतयाऽवभालते, येन विधेरविषयः स्यात् ॥
अंपि च 'यजते' 'दद्यात्' जुहुयात्' इति सर्वत्रापरित्यक्त'पूर्वापरी .. भूतस्वभावं तद्व्यापारसामान्यमवगम्यते। तेन विधेश्च विषयतां प्रति‘पद्यते। तदिदं सकलधात्वर्थसाधारणं साध्यमानावस्थं व्यापारसामान्यं भावनेत्युच्यते । तस्मिश्च पक्षे धातुवाच्यत्वमपि भावनाया वक्तुं शक्यते ।। .
पाकादिशब्देभ्यो धातौ सत्यपि तदप्रतीतेः न धातुवाच्यत्वं भावनाया इति चेत्, भवत्यादौ तहि सत्यति प्रत्यये तदप्रतीतेः प्रत्ययवाच्यत्वमपि न स्यात् । तदलमनेन निर्धारण प्रयत्नेत। सर्वथा धातोर्वा प्रत्ययाद्वा भावनाऽवगम्यत इति सिद्धम् ॥
* भात्मनः सुखादुःखादिसंबन्धमन्तरा प्रत्येकं भानस्य वेदान्तिव्यतिरिक्तैः अनङ्गीकारेऽपि न नास्तित्वं यथा, तथा ॥
धातौ सत्यपि-धात्वर्थे प्रतीयमानेऽपि । 'भवत्यादौ' इत्यत्र आदिना करोत्यादिपरिग्रहः ॥
1 सर्वत्र--ख,
निरिण-क.