SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 86 न्यायमञ्जरी करोतिशब्दादपि केवलात् कर्तृव्यापारो न नासाववगम्यते ; यत्र यागादिकर्मणाऽननुरक्तेन प्रयोगयोग्यतां प्रतिपद्यत इति विशिष्टेभ्य एव यजत्यादिशब्देभ्यो भावनाख्योऽनुष्ठेयः पुरुषव्यापारः प्रतीयत इति सिद्धम् ।। __ [अख्यातार्थवस्तुस्वरूपे पक्षभेदाः] क्रियाविशेष एवायं व्यापारो ज्ञातुरान्तरः । स्पन्दात्मकबहिर्भूतक्रियाक्षण विचक्षणः ॥ इत्येवं केचित् ।। पुरुषस्य प्रयत्नो वा भावनेत्यभिधीयते । . औदासीन्य दशापायं पुमान् येन प्रपद्यते ।। स यत्नो यागहोमादित्रियानिवृत्तिकारणम् । , तस्य तद्व्यतिरिक्तत्वं प्रायः सर्वेऽनुमन्यते ।। .. स चायमात्मधर्मोऽपि न विभुत्वादिसन्निभः। साध्यरूपाभिसम्बन्धात् धत्ते विषयतां विधेः ॥ इत्यपरे ।। [भावनायाः धात्वर्थानुगतत्वपक्षः] अन्य धात्वर्थसामान्यं भावनामभ्युपागमन् । यागदानाद्यनुस्यूतं रूपं गोत्वादिजातिवत् ।। * दशपायः-दशाविगमः॥ तद्व्यतिरिक्तत्वं-धात्वर्थक्रियावलक्षज्यम् । 1 विलक्षणः-ख - विभो:-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy