SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ 85 पञ्चममाह्निकम् यश्च पाकं करोतीति व्यवहारो *विभागतः। स एव समुदायेन प्रोक्तः पचतिना यथा ॥ तथा कार्य करोतीतिः प्रतीतिर्नास्ति लौकिकी। प्रत्ययार्थः करोत्यर्थं पचत्यादौ तु वर्तते ॥ कर्तृसंख्याप्रतीतौ च न विवादोऽस्ति कस्यचित् । तावता निह्नवः कार्यो न तु व्यापारसंषिदः ॥ करोतीत्यादि शब्देभ्यश्च यथा न भवितव्यविशिष्टेभ्यः तत्प्रतीतिरिष्यते, न तथा सर्वेभ्यः ।। . के पुनस्ते विशिष्टाः शब्दाः, ये भावनामभिदधति ? उच्यते भावार्थाः कर्मशब्दा ये तेभ्यो गम्येत भावना। यजेतेत्येवमादिभ्यः स एवार्थो विधीयते ॥ • भवन्ति केचित भावार्थाः, न कर्मशब्दाः'–प्रथा-'भावः' 'भवनं' 'भूतिः' इति । · भवन्ति केचित् कर्मशब्दाः, न भावार्थाः-यथा-श्यनैकत्रिकादयः कर्मनामधेयतया प्राक् समथिताः। ये तु भावार्थाः सन्तः कर्मशब्दाः 'यजते' 'ददाति' 'जुहोति' इत्येवमादयः, तेभ्यः भावनाख्या क्रिया गम्यते । तैरेव लिडादिविभक्त्यन्तैः सोऽर्थोऽभिधीयते 'यजेत' 'दद्यात्' 'जुहुयात्' इति । तदुक्तं-'यज्याद्यर्थश्चातो 'ऽवगम्यते भावये.. दिति च' इति (शा.भा-2-1-1) || । विधायत॥ ___ * पाकः, तदनुकूलव्यापारश्चेति विभागतः। 'पाकं पचति' इति निरर्थकः शब्दः प्रयुज्येत चेत् , न तत् विषयव्यवस्थापकम् ॥ 'एकत्रिकेण यजेत' इत्युक्तः यागविशेषः। लोकेऽपि पाकादिशब्दाः केवल धात्वर्थाः। प्रयत्नादिशब्दाः केवलव्यापारवाचिनः। पचतीत्यादयः उभयपराः॥ ____ 1 करोतीति-ख. • यद्यर्थःशान्तो-ख. शब्दाभिधेययाऽनया-ख, 'ये न-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy