SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 84 'न्यायमञ्जरी पायात् । यथा हि 'औपगवः' 'कापटवः' 'औपमन्यवः' इत्युपगुप्रभृतीनामुद्धारे च निक्षेपे च प्रत्ययार्थोऽनुवर्तते तद्धि तान्तेषु, तथाऽऽख्यातेष्वपि सोऽनुवर्तमानो दृश्यते ।। अपि च 'पचति' इत्याख्यातपदस्य यदार्थो। व्याचिख्यासितो भवति, तदा 'पाकं करोति' इति वाक्यं व्याख्यातारः प्रयुंजते-'पचति' . इति कोऽर्थः ? --'पाकं करोति" इति पाकशब्देत द्वितीयान्तेन साध्यं . धात्वर्थं व्याचक्षते। कर्तव्यापारात्मकं प्रत्ययार्थं 'करोति' इतिपदेन ॥ किं च किं करोति देवदत्तः?' इति पृष्टास्सन्तः द्वये वक्तारों . भवन्ति 'करोति पार्क' इति, पचतीतिवत् । तदिदमुभयरूपमप्युत्तर मेकार्थम् ; अन्यथा न तेन प्रष्टा प्रत्याय्यत। तस्मात् पाकं करोतीति । पदद्वयस्य योऽर्थः, स एवार्थः एकस्य पचतीति पदस्य। अत्रापि पच- . त्यर्थादन्यः करोत्यर्थः प्रतीयत एव। योऽसावन्यः करोत्यर्थः, सा भावना ॥ [भावनायाः अतिरिक्तत्वानतिरिक्तत्वे ] आह-न कर्तृसंख्यादिव्यतिरेके ग प्रत्ययात् धात्वर्थातिरिक्तं व्यापार प्रतिपद्यन्ते । प्रतिपद्यरंश्चेत *करोतीत्यतोऽपि शब्दात् प्रतिपद्येरन् । न च करोतीत्यत्र प्रकृतिप्रत्ययवाच्ये क्रिये विभय दर्शयितुं शक्यते-उच्यते -नेदं साधु बुध्यसे ॥ * करोतीति-'पाकं करोति' इति व्यवहारात् यदि भाख्यातार्थविवरण करोतिना क्रियेत, तर्हि 'करोति' इति व्यवहारे व्यापारस्यौव धात्वर्थत्वात् माख्यातार्थः कः अतिरिक्त वक्तव्य इत्याक्षेपार्थः॥ 1 यथार्थो-क, 'करोति-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy