SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ 83 पञ्चममाह्निकम् [ भावना न क्रियारूपा ] ननु व्यापारः क्रियैव, तदतिरिक्तस्य व्यापारस्यासंभवात । क्रिया. वाक्यार्थ पक्षश्च प्रतिक्षिप्तः-उच्यते-न क्रियामात्रं भावना। अपि तु परिदृश्यमानपूर्वापरीभूतयज्यादि भाव स्वरूपातिरिक्तः पुरुषव्यापारः *प्रत्ययात् प्रतीयमानो भावना। यथाऽह 'न सा केनचिदुत्पाद्या जनिका सा न कस्यचित् । ___ केवलं जननी ह्येषा जन्यस्य जनकस्य च' इति ॥ क्रियाकारकादिविलक्षणैव हि सा शब्दात् प्रतीयत इत्यर्थः । [भावनायाः आख्यातवाच्यत्वम् ] ननु च 'यजत' इत्यत्र प्रकृत्यर्थो यागादिः किया। प्रत्ययार्थस्तु प्रेरणारूपो विधिः, कर्तृसंख्यादिश्च; न तु धात्वभिधीयमानव्यापारव्यतिरिक्तो भावनाख्यः पुरुषव्यापारः प्रत्ययात् प्रतीयते। न हि भावनावाचिनों कोचिद्विभक्ति स्मरति पाणिनिः, लिङादिमिव विध्यादौ। तस्मान्न भावना वाक्यार्थः-उच्यते-भावनाऽपि प्रतीयत एवाख्यातात् यदि नैपुण्येन शाब्दी प्रमितिरवमृश्यते ॥ ___ आस्तां विधिपदं तावद्वर्तमानापदेशिनः । शब्दात् यजत इत्यादेः भावना न न गम्यते ॥ . पचति'' गच्छति' इत्यतो यथा पाकादिर्धात्वर्थः प्रतीयते, तथा सर्वानुगतः कर्तृव्यापारोऽपि, पाकाद्युपजननापायेऽपि व्यापारप्रतीतेरन * धात्वर्थः क्रिया, तदतिरिक्ता भावना अख्यातार्थः॥ भावना धत्वर्थवत् न कारकनि पाद्या, नापि कारकवत् धात्वर्थनिःपादिका । अपि तु उभयोरपि प्राणप्रदात्री ॥ आदिपदेन गमनादिपरिग्रहः। अन धात्वर्थस्तु भिद्यते, न त्वाख्यातार्थः॥ 1 व्यापार-ख, ३ भावनार्थ-क, ३ पचति पठति-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy