________________
न्यायमञ्जरी साध्यमानत्वपक्षे तु *साक्षात्तत्सिद्धि'वेदनात् । व्यापार एव तनिष्ठः तद्धि वाक्यार्थ उच्यताम् ।। अत एव हि वाक्यार्थ भावनां प्रतिजानते । यथोचितफलाढयां च त्रयसम्बन्धबन्धुराम् ।।
[ भावनास्वरूपविवरणम् ] केवं भावना नाम? भाव्यनिष्ठो (p. 75) भावकव्यापारो भावना । भाव्यं हि स्वर्गादि फलं, साध्यमानत्वात्। साध्यत्वं चास्य भवनक्रिया: कर्तृत्वात्। भवनक्रियायां च कर्तृत्वं उत्पत्तिधर्मकस्य वस्तुनो दृष्टम् । न नित्यं भूतस्य, नापि नित्यमभूतस्य । यथाऽऽह-(तं. वा. 2-1-1)
'नित्यं न भवनं यस्य यस्य वा नित्यभूतता।
न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव' इति ॥ स्वर्गादिश्च काम्यरूपोऽर्थः खतत्पुष्पाभ्यां विलक्षण इति भाव्यों भवति । तनिष्ठस्तदुत्पादकश्च पुरुषव्यापारो यः, स भावना। सा ण्यन्तेन भवतिनोच्यते। प्रकृत्यर्थस्य भवतेः कर्ता यः स्वर्गादिः, स एव ण्यन्तस्य तम्य कर्मतां प्रतिपद्यते। "कर्ता त्वस्य प्रयोजकः पुरुषः। णेश्वार्थः प्रयोजकव्यापारः। पुरुषो हि भवन्तं स्वर्गादिमर्थ स्वव्यापारेण भावयतिसंपादयति । स तत्संपादको व्यापारो भावनेत्युच्यते ।।
अतश्चात्र कर्तृस्त्र
* साक्षात–व्यापारान्तरापेक्षा विनैव ॥
+ 'भवति' इत्युक्ते हि फले भवनक्रियाकर्तृत्वं प्रतीयते। आश्रयत्वे, तच्च विषयत्वे, तच्च साध्यत्वे विश्राम्यति ॥
* 'गतिबुद्धि' इत्यादिना अत्र कर्मत्वप्रतीतेः॥
1 त्तसिद्धय-ख,
कर्तृत्वस्य-क,
णेश्चार्थ :णिज्वाच्य:-स.