________________
पञ्चममाह्निकम्
81 यद्येवं, संकटे पतिताः स्मः । न विद्मः किं विदध्महे । क्रिया हि फलार्था, फलं च पुरुषश्च क्रियार्थ इति परिवर्तमाने चक्रे कस्य प्राधान्यं शिष्मः ? कस्य वाक्यार्थत्वम् ? |
. [पुरुषस्यापि वाक्यर्थत्वासंभवः ] उच्यते-पुरुषस्तावन्न वाक्यार्थः; आख्यातवाच्यत्व एव तस्य विवदन्ते, का कथा वाक्यार्थत्वस्य ?
ननु 'कर्तरि लकार:' इति स्मरणात् कथं नाख्यातवाच्यः कर्ता ? कोऽयं लकारो नाम ? स हि 'वर्तमाने लट्'-इति विधाय, 'कर्तरि शप' –'युष्मद्रि मध्यमः'--'अस्मद्युत्तमः'-'शेषे प्रथमः'-'तिप्तस्झि'-इति, बहुषु बहुवचनम्'-'द्वयेकयोद्विवचनैकवचने' - इति वाक्यान्तरैविभज्य विवृतः। तदेतानि कारकसंख्याविभक्तिविधायोनि सूत्राणि एकवाक्यतया व्याख्ययानि, एकार्थविषयत्वात्। एको हि ‘पचति' इत्यादिः शब्दः तैया॑क्रियते। तदेवमेष वाक्यार्थो भवति–कर्तुबहुत्वे वहुव वनं झि इति । सेयं कर्तृसंख्याऽऽख्यातवाच्या भवति, न कर्ता-इति कुतस्तस्य वाक्यार्थत्वम् ? अलं चानया शास्त्रान्तरगर्भया द्राधीयस्या कथया। पुरुष स्तावन्न वाक्यार्थः ।।
[भावनाया वाक्यार्थत्वपक्षः] फलमपि न वाक्यार्थः, सिद्धासिद्धविकल्पानुपपत्तेः। सिद्धस्य तावत् फलस्याभिधानमेव नास्ति, साध्यमानत्वेन' निर्देशात् ॥
* विवदन्ते-भावना, कृतिर्वा आख्यातार्थ इति किल मन्यन्ते ॥ स हीति-एभिस्समिलित्वैव लकारस्वरूपं ज्ञातव्यम् ॥
1 काम्यमान-ख.