________________
. न्यायमञ्जरी [क्रियाया अपि फलशेषत्वमेव] - का चेयं क्रिया वाक्यार्थ इत्युच्यते ? य एष यागादिः भावार्थे धातुवाच्यः ? उत *प्रत्ययार्थः कश्चित्तदतिरिक्तः ? इति ॥
तत्र भावार्थस्य काम्यमानसाधनत्वात् अप्राधान्यमुक्तमेव । 'प्रत्ययार्थेऽपि काम्यमानभावार्थगतसाधनभावापरित्यागैनैव प्रतीयमानो वाक्यार्थतामेति, नान्यथेति। स चायं परेषामपि पक्षः। तस्मान्न क्रियामात्रपर्यवसायी वाक्यार्थ इति सिद्धम् ।।
[फलस्यापि वाक्यार्थत्वासंभवः, पुरुषस्य वाक्यार्थत्वविमर्शश्च] . किमिदानी फलस्यैव वाक्यार्थत्वं प्रचक्ष्महे ? तद्धि प्रधानं साध्यम्। एतदर्थो ह्यखिल: श्रमः-एतदपि नास्ति-क्रियार्थ एव तावद्वाक्यार्थत्वं कथमुत्सृष्टम् ? अप्राधान्यादिति चेत्-फलेंऽपि समानम्। फलमपि पुरुषार्थत्वादप्रधानम्। न हि 'स्वर्गः स्वतन्त्र एव सत्तां लभतां' इति यतते पुरुषः, किन्तु स्वोपभोग्य तयैव सर्वमभिलषतीत्यतस्तस्यापि तदर्थत्वान्न प्राधान्यम् । आह च 'फलं च पुरुषार्थत्वात्' (जै-सू-3-1-5) इति ।।
हन्त ! तहि पुरुष एव वाक्यार्थो भवतु। स ानन्यनिष्ठः, स्वतन्त्रत्वात्-उच्यते-पुरुषोऽप्यौदुम्बरी'संभारादिषु विनियुज्यत एव । 'यजमानसंमिता औदुम्बरी भवति' इति तस्यापि तदर्थत्वम् । उक्तं च 'पुरुषश्च कर्मार्थत्वात्' (जै-सू-3-1-6) इति ||
* प्रत्ययः-अख्यातम् । तदर्थः पुरुषव्यापारः, भावना वा॥ + नान्यथा स्वतन्त्रतया, स्वयं पुरुषार्थत्वेन ॥
वाक्यार्थत्वं-ख,
योग्य-ख,
वाक्यार्थोऽपि-क, 'संमार्जनादिषु-ख.