________________
79
पञ्चममाह्निकम्
ननु क्रियाकारकसम्बन्धव्य तिरिक्तः कोऽन्यः कर्मणः पुरुषस्य च सम्बन्धः ? उच्यते-'ममेदं कर्तव्यम्' 'अहमत्र स्वामी' इति स्वस्वामिभावमवगत्य पाश्चात्यः क्रियाकारकसम्बन्धोऽवगम्यते ॥
[अधिकारिणः कर्तुश्च विशेषः] नन त्वयाऽपि *क्रियाकारकसम्बन्धौ नापहनूयत एव, जातिवादिनेव व्यक्तिप्रतीतिः। स तु पाश्चात्य इन्यत्र किं प्रमाणम् ? उक्तमत्र अनुपादेय विशेषण विशिष्टस्य पुंसः निर्देशादिति । कारकत्वानुगुणविशेषणयोगिनो ह्यस्य कर्तृतया योग्यः संबन्धः। तद्विपर्यये त्वधिकारित्वेनेति । तस्मादधिकृतस्य कर्तृत्वम्, न कर्तुरधिकारः॥ .. इत्थं च स्वर्गकामस्याधिकृतत्वं निर्वहति । 'यदि हि तत्कर्म स्वर्गाय स्यात् , स्वर्गो मे भोग्यो भवेत् । 'कथमहं स्वर्ग प्राप्नुयाम्' इत्येवं साध्यत्वेन स्वर्गमिच्छन् स्वर्गकाम इत्युच्यते। यदि च न स्वर्गसाधनं तत्कर्म, तद्विरुद्धमेवेदमापतति-स्वर्ग कामयते, यागं करोतीति-अन्यदिच्छति, अन्यत् करोतीति हि स्यात् । अतः कर्मणः काम्यमानसाधनतामप्रतिपद्यमानः स्वर्गकामः तत्र नैवाधिक्रियते; न चानधिक्रियमाणस्तत्र संबध्यते ॥
तदेवमधिकृतत्वेन स्वर्गकामस्य कर्मणि संबन्धात् स्वर्गयागयोश्च साध्यसाधनभावावगममन्तरेण तस्याधिकारनिर्वाहासंभवात् अवश्यंक्रियायाः साधनत्वं, स्वर्गस्य च साध्यत्वमभ्युपगन्तव्यम्। अतश्च त्रियायाः फलं प्रति गुणभावान्न प्राधान्यम्। अप्राधान्याच्च न वाक्यार्थत्वम् । तदुक्तम्-'कर्मण्यपि जैमिनिः फलार्थत्वात् (जै-सू-३-१-४) इति ॥
-
* 'अहं इदं एभिस्साधनैः मम सुखाय अस्माद्धतोः अत्रेदानी करोमि' इति व्यवहारे सर्वकारकाणां क्रियाकारकसम्बन्धः प्रतीयते ।
* अनुपादेयविशेषणं स्वर्गः। द्वितीयं तु लोहितोष्णीषादयः ॥
1 विशेषणं-ख.