________________
78
न्यायमञ्जरी द्रव्याहरणाङगत्वादुपकारिणी, यत् तया द्रव्यमानेतुं यतत इति दृष्टोपकारित्वम् ।।
[फलस्य वाक्यार्थत्वसमर्थनम् , स्वर्गपदार्थश्च ] तच्चैतदसारम्-स्वर्गशब्दस्य द्रव्यवाचित्वाभावात्। प्रीतिवचनोोष स्वर्गशब्दः, न द्रव्यवचनः। तदेव चन्दनं शीतातुरेण, 'अग्रीष्मो पहतेन वा 'न स्वर्ग' इति व्यपदिश्यते। सैवाङगना विरतायां सुरततृषि न स्वर्ग इत्युच्यते। तदेवमेष स्वर्गशब्दः प्रीति न व्यभिचरति, द्रव्यं तु व्यभिचरति। एवमद्रव्यत्वात् स्वर्गस्य न क्रियाङगत्वम् ॥
अथापि निरतिशयसुखप्रतीत्यन्यथाऽनुपपत्तितः परिकल्पितः कनक. . गिरिशिखरादिर्देशः स्वर्गः ; सुतरां तस्य न क्रियासाधनत्वमवकल्पते, *दध्यादिवदुपादातुमशक्यत्वात् ॥
अथापि अदृष्टेनव द्वारेण 'समुद्रं 'मनसा ध्यायते' इतिवत स्वर्गकामना तत्रोपकारिणी-तदपि क्लिष्टकल्पनामात्रम्-प्रीतिहिं निरतिशया स्वर्गः। प्रीतेश्चानन्यार्थत्वं युक्तम्। प्रीत्यर्थमन्यत् , नान्यार्था प्रीतिः । तस्मान्न यागाय स्वर्गः, अपितु स्वर्गाय यागः। इत्थं च क्रियासाधनानुपदेशात् न कर्तृसमर्पकत्वेन स्वर्गकामपदं समन्वेति ॥ . ,
[स्वर्गकामादिपदानां अन्वयक्रमः] कथं तमुस्यान्वयः ? अधिकारिवाचित्वेन ब्रूमः। कोऽयमधिकारी नाम ? कर्मणः स्वामी। ईस्वरवचनो ह्यधिकृतशब्दः॥
ननु कर्तव कर्मणः स्वामी, नान्यः-मैवम् – स्वामी सन् कर्ता, न कर्ता सन् स्वामीति ।।
* दध्यादिवत्-इति व्यतिरेकदृष्टान्तः ।
1 न स्वर्ग इति ग्रीष्मो-ख, ' स्वर्ग-ख, ' मेरुः-ख, ' मनो-ख.