________________
पञ्चममाहिकम् .
77 क्रियां प्रति *कर्तुरुपदेशः। वस्तुवृत्तेन तु कर्मणि क्रियमाणे कर्म
स्वाभाव्यात' फलं चेद्भवति, भवतु तत्! पुरुषोऽपि 'प्रीयतां नाम ‘फलेन, न तु शब्द: फलोपदेशनिष्ठः। आह च तस्मिस्तु कृते स्वयमेव तद्भवति' (शा-भा-3-1-3) इति। स्वयमेवेति कोऽर्थः ? न शब्दः फलपारतन्त्र्यं क्रियायाः प्रतिपादयतीति ।। .. तदेतदयुक्तं--एवं वर्ण्यमाने 'स्वर्गकामो यजेत' इति स्वर्गकामपदस्यान्वयो दुरुपपादः ।।
[ फलस्य वाक्यार्थत्वे आक्षेपः] · ननु ! कर्तृपदमेतत्। कर्ता च क्रियार्थः, न का क्रियेत्युक्तम्
न कर्तृपदं स्वर्गकाम इति, किन्त्वधिकारिपदमेतत् । न हि जात्यैव कश्चित् स्वर्गकामो नाम कुत्रचित् पुरुषोऽवगम्यते, योऽत्र कर्तृत्वेन नियुज्येत। स्वर्गे कामो यस्यासौ स्वर्गकामः, स्वर्ग वा कामयति स्वर्गकामः । उभयथाऽपि स्वर्गकामनाविशिष्ट: पुरुषस्तस्मात्पदादवगम्यते । तदत्र काम्यमानः स्वर्गः कथं यागक्रियया' संबध्यते ? 'दृष्टेन, अदृष्टेन' वोपकारेण? यदि हि चन्दनं स्वर्गः, षोडशवर्षदेशीया अङगनाः स्वर्गः इति चन्दना डगनादि द्रव्यसामानादिकरण्यप्रयोगात् "द्रव्यवचन: स्वर्गशब्द', तदा 'द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः' (जै-सू-6-1-1) इति दध्यादिवत् साधनत्वेन स्वर्ग उपकरोति 'क्रियायाः। कामनाऽपि
___ * कर्ता नाम क्रियानिर्वर्तकः । अतः सोऽपि क्रियाशेष एव ॥
+ फलस्य कथं क्रियायामुपयोगः ? इत्यत्राह-कामनापीति ॥
· दृष्टादृष्टेन-ख.
। स्वाभाव्यं-ख, 'प्रयततां-ख, ' क्रियया-ख, ' रागादि-ग, द्रव्यशब्द-ख, 'क्रियां-ख. .