SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 76 न्यायमञ्जरी - एतदुक्तं भवति-द्रव्यादीनामेव क्रियां प्रति शेषत्वमनुगम्यते, न क्रियाया अन्यशेषत्वमिति* || [फलस्यैव वाक्यार्थत्वं युक्तम् ] अत्रोच्यते-कुत इदं क्रियायाः प्राधान्यमुपेयते ? वस्तुवृत्तेन वा? - शब्दप्रत्ययमहिम्ना वा? फलस्य वस्तुतस्तावत् प्राधान्यमवगम्यते। न सचेताः क्रियां कांचित् अनुतिष्ठति निष्फलाम् ।। वेदाद्गुरुनियोगाद्वा शासनाद्वा महीभुजः । न वै फल'मपश्यन्तः क्रियां विदधते जनाः ।। बालो माणवकोऽप्येषः चपेटामात्रहानये । मोदकाद्याप्तये वाऽपि करोति गुरुशासनम् ।। [क्रियायां शब्दप्राधान्यस्याप्यसंभवः ] अथोच्यते-न वस्तुतः प्राधान्यमिहाश्रीयते, अपि तु शब्दतः। शब्दप्रमाणका वयम् । यत् शब्द आह, तदेवास्माकं प्रमाणम् । तद्यथा 'राजपुरुषः' इति। वस्तुवृत्ते राजा जगतामोशिता प्रधानम्, पुरुषस्तपस्वी तदिच्छानुवर्तनेन जीवति । शब्दस्तु पुरुषप्राधान्यमाचष्टे, उत्तरपदार्थप्रधानत्वात् तत्पुरुषस्येति । एवमिहापि 'यजेत' दद्यात्' 'जुहुयात्' इति क्रियां प्राधान्येनोपदिशति शब्दः। 'स्वर्गकामः' इत्यपि * भूत-सिद्ध भव्याय-साध्याय उपदिश्यते इति न्यायः ॥ । तथाचानिष्टपरिहार एत कुत्र चित्फलम् ॥ * वस्तुतः-वस्तुस्वरूपतः ॥ 1 न वैफल्य-ख, . अत्रोच्यते-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy