________________
75
पञ्चममाह्निकम् वर्तीन्यपि योग्यानि स्वसंपत्त्यर्थमाहरति । इत्येवं दृष्टादृष्टोपकारकानेक कारककलापसंपाद्यमानस्वरूपा क्रियैव वाक्यार्थः ॥
यजेत दद्याज्जुहुयात् अधीयीतेति चोदितः । क्रियां साध्यतया वेत्ति तां च लोकोऽनुतिष्ठति ॥
क्रिया
- [कतुरपि क्रियाशेषत्वमेव] . अधिकारिपदमपि क्रियापेक्षितकर्तृसमर्पणेन तदुपयोगितामेवाव.
लम्बते-अस्यां क्रियायामयं कर्ता, अनेनेयं क्रिया संपद्यते-इति। तत्र च 'न क्रिया' स्वप्राधान्यमुज्झति। न हि क्रिया कर्बर्था, कर्ता तु क्रियार्थः । स हि ता. निवर्तयन्नुपलभ्यते। शब्दोऽपि तथैवोपदिशति 'एष इदं कुर्यात्' इति ॥
[कर्तुरप्राधान्येऽपि प्रवृत्युपपत्तिः] किमथ पुनरसौ क्रियामनुतिष्ठतीति चेत्, शब्दप्रामाण्यादेवेति ब्रूमः। शब्देन हि चोदितः 'त्वयेदं कर्तव्यम्' इति । स चेन्नियुक्तो नानुतिष्ठन् चोदनामतिकामेत् । शास्त्रप्रत्ययाच्च क्रियामनुतिष्ठति । विरतफ़लाभिलाषः कर्मसंस्कारादेव परिपक्वकषायः स्तोकस्तोकप्रपंचप्रविलापनद्वारेणोत्तमाधिकारमारूढः तत एव *ज्ञातास्वादः तमेव परम
"पुरुषार्थमासाद यतीति दीर्घा सा कथा; तिष्ठतु ! किमनया? सर्वथा .. · क्रियाप्राधान्यात सैव वाक्यार्थ इति। तदुक्तम् 'द्रव्यगुणसंस्कारेषु
बादरिः' (जै-सू. 3-1-3) इति ॥
* प्रपञ्चभ्रमनिवृत्त्या संसारबन्धविगमेन ज्ञातस्वरूपसुखः॥ इदं च कर्मब्रह्म काण्डयोरैकशास्त्र्यवादिप्राचीनवेदान्तिनां मतम् ॥
' कर्ता क्रियासु-ख,
* पुरुषार्थ प्रतिपाद-ख.