SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 'न्यायमञ्जरी पदार्थाः किल वाक्यार्थभावमायान्ति संहताः । अपेक्षानुगुणान्योन्यव्यतिषङगविशेषतः ॥ न च गुणप्रधानभावमन्तरेण संसर्गः पदार्थानामवकल्पते। न चाख्यातरहितं वाक्यं किंचत्प्रयोगयोग्यम्। अनुच्चारिते तस्मिन् आकाडाक्षाया अनिवृत्तेः। श्रोत्राकाङक्षानिवृत्तये च वाक्यानां लोके प्रयोगः । . लोकवच्च वेदादप्यर्थोऽवसीयते। आख्याताच्च पूर्वापरीभूतः साध्य... रूपोऽर्थोऽवगम्यते, न सिद्धरूपः। सिद्धसाध्यसमुच्चारणे कस्य कितन्त्रतेति चिन्तायां साध्यसिद्धये सिद्धमुपात्तमिति प्रतीयते ।। साध्यं च साध्यमानत्वात् प्रधानमवगम्यते । तस्मात्तदेव वाक्यार्थः क्रियातो नापरं च यत् ॥ [ सर्वेषां क्रियाप्रधान्ये निदर्शनानि ]. क्रिया हि प्रतीयमाना स्वनिष्पतये साधनान्याक्षिपति, तैश्च योग्यैः संबध्यते। तानि च कानिचित् पदान्तरोपात्तानि भवन्ति । - कानिचित् वाक्यान्तरोपनीतानि । कानिचित् प्रकरणान्तरपाठलभ्यानि। कानिचिदारादुपकारकाणि। कानिचित्सन्निपत्योपकारकाणि, कानिचिद. न्तिकोपनिपतितान्यपि योग्यताविरहात् परिहरति। कानिचिदतिदूर. * संहताः-क्रियायामिति तात्पर्यम् ॥ * पूर्वोत्तरावधिमानिति यावत् ॥ * साक्षाफलान्वयीनि आरादुपकारकाणि, साधनस्वरूपनिष्पादनद्वारा तादृशानि सन्निपत्योपकारकाणि ॥ पूषानुमन्त्रणादीनि ॥ • यथा प्रकरणान्तरगतान्यपि पूषानुमन्त्रणादिनि पौष्णचरुकर्मणि ॥ 1 कैश्चित्-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy