________________
पञ्चममाह्निकम्
73 यश्च तदतिरिक्तो विषयः, स वाक्यार्थः। एवं केवलगुणक्रियापदोच्चार• णेऽपि योजनीयम् । तदुक्तं यदाधिक्यं स वाक्यार्थः इति ।।
संसर्गोऽपि पदानां न न प्रतीयते । न हि 'गौरश्वः पुरुषो हस्ती' इत्यसंसृष्टपदार्थप्रतीतिवत् 'गौः शुक्ल आनीयताम्' इति प्रतीतिः। यथा च संसर्गः प्रतोयते, यश्च प्रतीत्युपायः, तत्सर्वं विस्तरतो निर्णेष्यते। तस्मात् बाह्य एव वाक्यार्थः॥
[ व्यवच्छेदस्य वाक्यार्थत्वनिराकरणम् ] . 'बाह्य एव भवन् न व्यवच्छेदो वाक्यार्थः, विधिरूपत्वेनावगमात् । संसर्गमन्तरेण चान्यव्यवच्छेदस्यापि दुरुपपादत्वात्। न हि शुक्लपदेनासंसृष्ट:* गोपदार्थ कृष्णादिभ्यो व्यावृत्त इत्यवगम्यते ॥ ... गोशब्दात् सर्वगवीषु बुद्धिरुपसर्पन्ती पदजनिता शुक्ल पद'सन्निधानात् अन्यतः कृष्णादेरपसर्पतीति व्यवच्छेदो वाक्यार्थ इति चेत्-मैवम् -तत्सम्बन्धावगमपूर्वकत्वात् तदितरच्यावृत्तेः। तत्सम्बन्धावबोधेनैव सिद्धे वाक्यस्यार्थवत्त्वे पाश्चात्यः कृष्णादिव्यवच्छेदावगमो यदि भवति, भवतु काम, न त्वसौ वाक्यार्थ इति ॥
[क्रियायाः वाक्यार्थत्वपक्षः] तदेवं विधिरूपे बाह्ये च शब्दार्थेऽवस्थिते सति क्रियामेव केचिद्वाक्याथ वर्णयन्ति। अयमेषामाशयः...
* असंसृष्टः-शुक्लपदार्थेनेति शेषः ॥
अपि तु आर्थिक इत्यर्थः॥
1 बाह्योऽपि-ख,
'शब्द-ख.