________________
72
न्यायमञ्जरी . 'एकार्थवृत्तिप्रायस्तु सम्बन्धोऽतिप्रसज्यते इति ।।
अर्थानां तु कचिदपि भवन् सम्बन्धः शब्दरनभिधीयमानत्वात असत्कल्प एव, न च भेद संसर्गयोर्वाचकं किंचित्पदमस्ति, अश्रवणात् । असति च तद्वाचिनि पदे न *तयोः पदार्थत्वम्। अपदार्थस्य च न वाक्यार्थत्वम॥
श्रुतेऽपि तिद्वाचिनि पदे सुतरामसङगतिः-गौः शुक्ल आनीयता संसर्गः' इति कोऽर्थः। तस्मात् बाह्यस्य वाक्यार्थस्य सर्वप्रकारमसंभवात पदार्थसर्गनिर्भासं ज्ञानगात्रं वाक्यार्थः, 'तेनैव लोकव्यवहार इति ॥ ..
[बाझार्थस्यैव वाक्यार्थत्वं, ज्ञानस्य तत्त्वनिरासश्च ] तदिदमनुपपन्नम् बाह्यार्थस्यानन्तरमेव विस्तरेण प्रसाधितत्वात् । च संसर्गनिर्भासं ज्ञानं वाक्यार्थो भवितुमर्हति । स्थापयित्वा हि बाह्यमर्थं वाक्यार्थचिन्तामु पक्र न्तोव तो वयम्। अतः कोऽवसरो विज्ञानमांत्रवाक्यार्थत्ववर्णनस्य ॥
[ पदार्थवाक्यार्थयो(लक्षण्यम्] न च पदार्थव्यतिरिक्तो नास्ति वाक्यार्थः । इदं तावद्भवान् पृष्टो व्याचष्टाम् । किं गौः' इति पदाद्यादृशी प्रतिपत्तिः, तादृश्येव 'गौः' शुक्ल आनीयताम्' ति वाक्यात् ? उत भिन्ने एते प्रतिपत्ती ? इति ||
तत्र तुल्यत्वं तावत्प्रतिपत्त्योरनुभवविरुद्धम्। वैलक्षण्ये तु प्रतीत्योः वषयवैलक्षण्यमपि बलादुपनतम् , असति विषयभेदे प्रतीतिभेदानुपपत्तः ।
* तयोः-भेदसंसर्गयोः ॥ * तद्वाचिनि-भेदसंसर्गवाचिनि ।।
1 एकार्थसमवायोऽपि सर्वेषां व्योम्नि तुल्यता-क, • असति-ख, 'भवितुमर्हति तेनैव-त्र,
न चामेद-का प्रसाधितत्वात्-ख.