SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 71 पञ्चममाह्निकम् प्रतीत्या तु सामस्त्यमधटमानम्, युगपद्भावित्वेन ज्ञानानां एकपदार्थप्रतीतिसमये पदार्थांन्तरप्रतीत्यसंभवात् । पदार्थ प्रतित्युपायाश्च वर्णाः। तऽपि न युगपद्भाविनः। कुतः प्रतीतिकृतं सामस्त्यम् ? ___ अपि च पदार्थसमुदायः किमितरेतरसंस्ष्टो वाक्यार्थः ? अन्यथा वा? न तावदन्यथा— 'गौरश्वः पुरुषो हस्ती' इत्येवमादावदर्शनात् । संसर्गस्तु दुरुपपादः। स ह्यपेक्षागतो' भवति । न चार्थोऽर्थान्तरमाकाडक्षति, अचेतनत्वात् । बुद्धीनामपि क्षणिकत्वात् अन्योन्यं नाकाङ्क्षा। न च तत्कृतः सम्बन्धः ॥ . . . [पदार्थसंसर्गस्यापि वाक्यार्थत्वासंभवः ] अत एव न संसर्गो वाक्यार्थः। न ह्यसौ अर्थानां ज्ञानानां वा यथोक्तनीत्याऽवकल्पते ॥ व्यवच्छेदोऽप्येवमेव* निराकार्यः। सोऽपि हि न ज्ञानानामुपपद्यते। तदुक्तम्- ( श्लो. वा. वाक्या-14) — 'यदि ध्रियेत गोबुद्धिः शुक्लबुद्धिजनिक्षणे । ततोऽन्याभ्यो निवर्तेत संसृज्येताथवा तया' इति ।। · न चापेक्षायां सत्यामपि सम्बन्धः कश्चिदुपलभ्यते। यथोक्तम्: (श्लो. वा. वाक्या-22) * 'अपेक्षणेऽपि सम्बन्धो नैव कश्चित् प्रतीयते । कार्यकारणसंयोगसमवायादिलक्षणः ॥ * पदार्थेम्यः व्यतिरेक व्यतिरेकादिविकल्पदुःस्थत्वादेव ॥ ध्रियत-तिष्ठेत । वस्तूनां क्षणिकत्वादिति हेतुरत्र ॥ * अपेक्षणेऽपीत्यादि-संबन्धस्य अपेक्षामूलत्वात् ॥ 1 गर्भो-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy