________________
70
न्यायमञ्जरी अन्ये बुवते-*द्वयाभिधाने लिडादः प्रत्ययस्य भारगौरव त् विधिरेव वाक्यार्थः, स एवानुष्ठेयः प्रवर्तकश्च ति॥
तत्रापि द्वयो विमतिः-कैश्चित् प्रेषणात्मकत्वं शब्दस्याभ्युपगतम् लिडादिशब्देभ्यस्तथा तदवगमात्, कार्यान्तरानवगमात् , भावार्थमात्रकार्यत्वपक्षस्य चातिदौर्बल्याद्विधिरेवानुष्ठेय इत्यर्थात् तस्य कार्यत्वम्॥
अन्यैस्तु-कार्यत्वेन नियोगप्रतीतेः अर्थात्तस्य प्रेरकत्वमिति संश्रितम् । कार्यमवगतं स्वसिद्धये पुरुषं नियुङक्ते - 'ममेदं कार्य' इत्यवगते हि तत्सिद्धये पुरुषः प्रवर्तत इति ॥
अपरे पुनः-अभिनवं वाक्यार्थं उद्योगं नाम वर्णयांबभूवुः-इत्यः नेकशाखा विप्रतिपत्तिः। तदत्र किं तत्त्वमिति ॥. . .
[ वाक्यार्थस्याबाह्यत्वं, ज्ञानस्यैव वाक्यार्थत्वं इति बौद्धपक्षः]
अत्रैके तावदाहुः-वाक्यार्थो नाम पारमाथिको बहिर्नास्त्येव । स हि पदार्थेभ्यो व्यतिरिक्तो वा स्यात् ? अव्यतिरिक्तो वा ? न व्यति रिक्तः-भेदानुपलम्भात्। 'गौः शुक्ला आनीयतां' इत्यत्र पदग्रामे जातिगणक्रियादि पदार्थव्यतिरेकेण कोऽसौ वाक्यार्थः ? स न दर्शयितुं शक्यते। अव्यतिरेके तु पदार्था एव' वाक्यार्थः प्रत्येकं वा स्यात् ? सामस्त्येन वा? न प्रत्येकं, तथाऽनवगमात ; न हि गौरिति पदार्थ एव वाक्यार्थो भवति ॥
सामस्त्यं तु न तेषामस्ति । तद्धि सत्तया भवेत् प्रतीत्या वा? "सत्तया न सामस्त्यमशेष पदार्थराशेरस्तीति न नियतः कश्चन वाक्यार्थोऽवधार्यते।
_ * द्वयं-पुरुषव्यापाररूपार्थभावना, शब्दव्यापाररूपशब्दभावना च ॥
1 पदार्थ एव-ख,
' सत्तया-घ,
पदार्थ-घ. (cont.).