SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 69 पञ्चममाह्निकम् पदाभिधेयार्थनिरूपणं तु __ *शास्त्रान्तरे विस्तरतः प्रणीतम् ।। तत्क्षोदनेन न नः प्रयोजनमतिद्राधीयसी सा हि भूः अन्यामेव दिशं परीक्षितुमतोऽस्माभिर्गृहीतः क्षणः । जात्याद्यर्थसमर्थनेन कथिता बाह्यार्थसंस्पर्शिता शब्दानामियतैव नन्ववसरेऽमुष्मिन् कृतार्था वयम् ।। __ [वाक्यार्थविचारोपक्षेपः] एवं पदार्थे निर्णोते वाक्यार्थश्चिन्त्यतेऽधुना । तत्र विप्रतिपत्तिश्च बहुरूपा विपश्चिताम् ।। केचिदाचक्षते बाह्यस्य वाक्यार्थस्यासंभवात् पदार्थसंसर्गनिर्भासं ज्ञानमेव वाक्यार्थ इति । - अन्ये तु–वास्तवः पदार्थानां परस्पर संसर्गो' बाह्य एव वाक्यार्थ इत्याहुः ॥ ___ अन्यव्यवच्छेदो वाक्यार्थ इत्यपरे, शुक्लादिपदान्तरोच्चारणे कृष्णादिनिवृत्तेरवगमात् ।। ___ अपरे संगिरन्ते–संसर्गस्य दुरपह्नवत्वात् तस्य च गुणप्रधानभावगर्भत्वात् गुणीभूतकारकनिकरनिर्वा प्रधानभूता क्रिया वाक्यार्थ इति ॥ . अन्ये मन्यन्ते-भाव्यनिष्ठः पुरुषव्यापारः करोत्यर्थो भावनाशब्दवाच्यो वाक्यार्थः। लिङादिशब्द व्यापारवाच्यस्तु' शब्दभावनाख्यः पुरुषस्यार्थभावनानुष्ठाने प्रवर्तकः स विधिरुच्यत इति ॥ * शास्त्रान्तरे-व्याकरणनिरुक्तादौ ॥ * शुक्लो गौः'इत्युक्ते अशुक्लव्यवच्छेदः गवि भासते। स एव वाक्यस्य अर्थः॥ * न हि वाक्यघटकपदानि विशकलितस्वतन्त्रार्थबोधकानि ।। भाव्यनिष्ठः-भाव्ययागाद्याश्रितः, तद्विषयकः ॥ •भावना-अर्थभावना ॥ 1 वाक्यार्थस्य संभवाय-क. 'संस्पर्शो-ख. ३ व्यापारस्तु-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy