________________
60
न्यायमञ्जरी ___नैष दोषः-*अर्थान्तराभिधानसामर्थ्यापादनमेव धातोविदधदुपसर्गो विशेषणं भवितुमर्हति । अनेकार्थामिधानशक्तिश्च धातुरुपसर्गेण नियतेऽर्थेऽवस्थाप्यत इति तस्य तद्विशेषणता ।।
[उपसर्गाणां वाचकत्वम् ? उत द्योतकत्वम् ?] उपसर्गाः किमर्थस्य वाचका द्योतका इति । प्रकृतानुपयोगित्वात् इहतन्न विचार्यते ।। अन्वयव्यतिरेकाभ्यां तदर्थो ह्यवधार्यते।
तदागमे तत्प्रतीतेः तदभावे तदग्रहात् ।। ते तु किं वाचकास्सन्तः तदवगतिमुपदधति ? किं वा द्योतकाः ? इति किमनेन ।।
एवं समुच्चयादिवाचिनां चादिनिपातानां, 'वृक्ष प्रति द्योतते' इति कर्मप्रवचनीयानां च अर्थः प्रयोगप्रतिपत्तिभ्यामवधारणीय इत्यलं प्रसङगेन ।
[पदशक्तिविचारोपसंहारः] अयमस्य पदस्यार्थ इति किं चिन्तितेत वा । योऽर्थः प्रतीयते यस्मात् स तस्यार्थ इति स्थितिः' । स्पष्टामपि तु ये बुद्धि निरूपयितुमक्षमाः । तान् बोधयितुमस्माभिः दिङमात्रमुपदर्शितम् ।। इति प्रमाणत्वसमर्थनाय
शब्दस्य किंचिद्वयमुक्तवन्तः ।
* विहरतीत्यादौ न हि धात्वर्थे विशेषः उपसर्गेण बोध्यते, किन्तु विलक्षण एवार्थः। तच्च वैलक्षण्यं क्वचिद्विरोधरूपमप्यस्तु ।
1 के चित्स तेन-ख,
स्मृतिः-ख,