________________
प्रमाणपरीक्षा
न्यायमचरी सन्तानप्राप्तया तत्प्राप्तिरित्यपि न युक्तम्-सन्तानस्य मेदाभेदविकल्पाभ्यामनुपपन्नत्वात् । एतञ्च सविस्तरं क्षणभङ्गभङ्गे निरूपयिष्यते॥
[प्रमाणस्य सांवृतसत्यत्वनिरासः] ननु काल्पनिकेऽपि सन्ताने सति संवृत्त्या प्रमाणलक्षणमिदं 'निर्वक्ष्यते'; यथोक्तं.---'सांव्यवहारिकस्यैतत्प्रमाणस्य लक्षणम् ,
अयं भावः-प्रभायां मणिबुद्धिवत् विकल्पानामर्थप्रापकत्वेन यदि प्रामाण्यमुपपाद्यते, तर्हि प्रभायां मणिबुद्धरपि प्रमात्वप्रसङ्गः। न चेष्टापत्तिः ; तर्हि शुक्तौ रजतमितिबुद्धेः अतस्मिंस्तद्विषयायाः प्रमात्वप्रसङ्गः। न च . शुक्तिरजतबुद्धेः अर्थप्रापकत्वाभावान्न प्रमात्वमिति वक्तुं शक्यम ; 'रङ्गरजतयोरिमे रजतरङ्गे' इत्यादिभ्रमस्थले रजतप्राप्तेः सत्त्वेन प्रमात्वप्रसङ्गः। न च यत् दृष्ट्वा रजतमिति प्रवर्तते तत्प्राप्ती न रजतप्राप्ति;, रङ्गस्यैव प्राप्तेः । रजतप्राप्तिस्तु रजतस्याकस्मात्तत्र सन्निधानादाकस्मिकीति नार्थप्रापकत्वं रङ्गे रजतबुद्धेरिति वाच्यम् ; प्रकृतेऽपि यां प्रभां दृष्ट्वा मणिरिति प्रवृत्तः, तत्र तत्प्राप्तिः-प्रभायाः प्राप्तिः, न तु मणिप्राप्तिः ; मणिप्राप्तिस्त्वाकस्मिक्येवेति तुल्यम । न च प्रभामणिबुद्धग्र्थप्रापकत्व नियतमेवेति आकस्मिकत्वं कथमिति शंक्यम् ; अविनाभावकृत तन्नैय्यत्यम , न तु प्रभाज्ञानाधीनं तत् । अस्तु स एव विशेष इति चेत, पीतशङ्खभ्रमात् प्रवृत्ती शस्त्रस्य प्राप्तया कथं तस्य भ्रमत्वमुच्यते? ननूक्तं तत्र कारणं यथाध्यवसिताऽप्रापकत्वात् , मध्यवसित: पीत: शंखः, प्राप्यते तु श्वेतः शंख इति चेत्, प्रकृतेऽपि मणिप्रभायां मणिबुद्धी महत्त्वादिविशिष्टः अध्ववस्यने, प्राप्यते चाणुर्मणिः। न हि मणितत्प्रभयोराकारभेद एव नास्ति, अनुभवविरोधात् । अतश्च यथाध्यवसितार्थप्रापकत्वं कस्यापि विकल्पस्य नास्त्येवेति भ्रमप्रमाविभाग एव न निर्वोढुं शक्य इति ॥
भेदाभेदेति । सन्तानः किं सन्तानिनो भिन्नः? उताभिन्नः इति विकल्पाभ्यामित्यर्थः। अत्रायेऽपसिद्धान्तः ; अन्त्ये दोषापरिहारश्च ज्ञयः ॥
ननु प्रमाणानां परमार्थसत्यत्वाभावेऽपि सांवृतसत्यत्वं वर्तते । द्विविधं हि सत्यम् । तथोक्तं बोधिचर्यावतारे--'संवृतिः पस्मार्थश्च सत्यद्वयमिदं मतम् ' (बोधि. प्रज्ञापार. १) इत्यादि, इत्याशङ्कते-नन्विति ॥ .
निर्वक्ष्यति-ख. 'संव्यव-क.