________________
आह्निकम् १] धर्मकीर्त्यभिमतप्रमाणलक्षणशोधनम् तदिदमध्यवसितप्रापकत्वं प्रामाण्य अध्यवसितस्यावस्तुत्वेऽपि तन्मूलवस्तुप्राप्तया निर्वहति, यथाऽध्यवसित प्रापकं च प्रमाणमिति मतम् । अतश्च पीतशङ्खादिग्राहिणां शङ्खादिमात्रप्राप्ती सत्यामपि न प्रामाण्यम् , 'यथाऽध्यवसित स्याप्राप्तः। अवगतो हि पीतश्शङ्खः, प्राप्यते च श्वेत इति । तस्माद्यथाऽवगनार्थप्रापकत्वं-अविसंवादकत्वं प्रामाण्यमिति ॥
[धर्मकीर्युक्तप्रमाणसामान्यलक्षणदूषणम्] ___ तदेतदनुपपन्नम् - इदमेव तावद्भवान् ब्याचष्टाम्! किं प्रदर्शितप्रापकं प्रमाणम् ? उताध्यवसितप्रापकम् ?
तत्रानुमाने 'प्रदर्शनमेव' नास्ति, का कथा तत्प्रापणस्य प्रत्यक्षेतु बाढं प्रदर्शनमस्ति, न तु प्रदर्शितं प्राप्यते; क्षणिकत्वेनातिकान्तत्वात् ॥
अध्यवसित प्रापकत्वमपि दुर्घटम्। अध्यवसायस्य भवन्मते वस्तुविषयत्वाभावात्; अवस्तुनश्च प्राप्नुमशक्यत्वात् । तदुक्तं भवद्भिः – “यथाऽध्यवसायम तत्वत्वात्', यथातत्त्वं चानध्यवसायात्" इति ॥.
• मूलभूतवस्तुप्रानिस्तु काकतालीयम्। न तु तदन्यतरेणापि प्रमाणेनापि स्पृष्टम् , यद्गत्वा प्राप्यते ॥
व्याचष्टाम्। चक्षिङ् ब्यक्तायां वाचि, लोटि प्रथमैकवचनम् ॥ प्रदर्शनमेव नास्तीति। अनुमेयस्य वस्तुनः परोक्षत्वादिति भावः ॥
अतिक्रान्तत्वादिति । निर्विकल्पकस्य प्रमात्वेऽपि, न हि दृष्टमेव प्राप्तुं शक्यते, क्षणिकवाद्वस्तूनामित्यर्थः । वस्तुविषयत्वाभावादिति । तन्मते हि सविकल्पकगृह्यमाणं वस्तु न सत्यम्। विकल्पस्याप्रमात्वात् । यथेत्यादि । मध्यवसायगृहीतप्रकारेण हि वस्तु मिथ्या, यथाभूतं च वस्तु न विकल्पे भासत इत्यर्थः ॥
• ननु तर्हि विकल्पाधीनप्रवृत्तावपि फलं लभ्यत एवेति शङ्कायामाहमूलेति । अन्यतरेण-प्रत्यक्षेण, अनुमानेन वा ॥
. 1 प्रमाण-क. 'प्रदर्शितमेव-क.
प्रापकत्वं च प्रामाण्यमिति-क. 3 यथाऽवगत-ख. अध्यवसिता-क. प्रापण-ख. 'तत्त्वात्-क.