________________
प्रमाणपरीक्षा
न्यायमचरी र्भवतीतिप्राप्तिं प्रति प्रमाणस्य प्रदर्शकत्वमेव व्यापारः । प्रदर्शयता हि तेन सोऽर्थः प्रापितो भवति, यथा 'हन्तव्यं प्रति राज्ञामाज्ञादानमेव 'हन्तृत्वम् । तदुक्तं "प्रापण शक्तिः प्रामाण्यम्' इति। लोकेऽपि च प्रदर्शितं 'वस्तु प्रापयतः प्रमाणत्वव्यवहारः ॥ ___ तच्च प्रापकत्वं 'प्रत्यक्षानुमानयोरुभयोरप्यस्तीति प्रमाणसामान्यलक्षणम् ।
तत्र प्रत्यक्षस्य वस्तुस्वलक्षणविषयत्वात् तस्य च क्षणिकत्वेन प्राप्तयसम्भवेऽपि तत्सन्तानप्राप्तेः सन्तानाध्यवसायजननमेव प्रापकत्वम्। अनुमानस्य त्वारोपितार्थविषयत्वेऽपि मूलभूतवस्तुक्षणपारम्पर्यप्रभवत्वात् मणिप्रभामणिबुद्धिवत् तत्प्राप्तया प्रापकत्वम् । न्यापार:' 'अर्थप्रापकत्वं प्रामाण्यमिति च' इत्यत्राह-प्रदर्शयता हीति । लोकेऽपीति। शुक्तौ रजतज्ञानं हि प्रदर्शितं रजतं न प्रापयतीति अप्रमेत्युच्यत इति शेषः ॥
क्षणिकवादे प्रदर्शितस्य प्राप्तिन संभवत्येवेति शङ्कायामाह तंत्रति । सन्तानाध्यवसायेति। ज्ञानस्य स्वलक्षणमात्रविषयकस्यैव प्रमात्वात् । अर्थस्य क्षणिकत्वेन प्राप्तिकाले दृष्टस्य नष्टत्वेन दृष्टस्य प्राप्त्यसंभवेऽपि तत्सन्तानघटकवस्तुप्राप्तः एकसन्तानविषयकाध्यवसायजननेनैव प्रापकत्व. मित्यर्थः। आरोपितेति । धर्मः धर्मिणो भिन्नश्चेत् हिमवद्विन्ध्ययोरिव सम्बन्धानुपपत्तिः । अभिन्नश्चेत्सुतरां सम्बन्धानुपपत्तिः, ' सम्बन्धस्य द्विनिष्ठस्वात् । अतो धर्मधर्मिरूपवस्तुद्वयं नास्त्येव। किन्तु वस्तुस्वरूपं धर्मधर्मिभावादिकल्पनाहीनमेव । तदेव स्वलक्षणमित्युच्यते। प्रथमाक्षपातसमनन्तरं यत् ज्ञानं प्राथमिकं तत् स्वलक्षणमात्रविषयकं निर्विकल्पं प्रमाणञ्च । अनन्तरं च एकस्यां प्रमदातनौ कामिनीत्वादिकमिव वासनया आकाराः कल्प्यन्ते । वासनाधीनत्वादेव आकारा: मिथ्याः । तद्विषयत्वाच्च सविकल्पकमप्रमाणम् । अनुमानमपि सविकल्परूपत्वादारोपितार्थविषयकमप्रमाणं च इति तेषां मतम् । मणिप्रभेति। तथोक्तं प्रमाणवार्तिके
'मणिप्रदीपप्रभयोः मणिबुद्धयाऽभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ यथा, तथाऽयथार्थत्वेऽप्यनुमानतदाभयोः । '
अर्थक्रियाऽनुरोधेन प्रमाणत्वं व्यवस्थितम् ॥' इति ॥ हर्तव्यं-ख. हर्तृत्व-ख. प्रमाण-क. “प्रापयतः-क. प्रमाणा-क.