________________
आदिकम १] धर्मकीय॑मिमतप्रमाणलक्षणशोधनम्
61 [भनधिगतार्थगन्तृत्वं प्रामाण्यस्वरूपं न जैमिनिसम्मतम् ]
शब्दस्यानुपलब्धेऽथै प्रामाण्यं चाह जैमिनिः । सर्वप्रमाणविषयं भवद्भिर्वर्ण्य'ते' कथम् ॥ १९ ॥
[धर्मकीर्युक्तप्रमाणसामान्यलक्षणपरिष्करणम् ] . अपरे पुनः- अविसंवादकत्वं प्रमाणसामान्यलक्षणमाचक्षते। तदुक्तम्--प्रमाणमविसंवादि ज्ञानम्' इति ॥
__ अविसंवादकत्वं च प्रापकत्वमुच्यते । ज्ञानस्य प्रापकत्वं-- सुखदुःखसाधनसमर्थपदार्थप्राप्तिपरिहार हेतुभूतायाः' प्रवृत्तर्निमि'त्त प्रदर्शकत्वमेव ; ज्ञानप्रदर्शिते हि विषये प्रवृत्ती सत्यां प्राप्ति
अर्थजत्वं ग्रन्थकृतैवोत्तरत्र निरूप्यते। अतो न तत्तौल्यं स्मृतेः। भत्रेदमवधेयम्-- पूर्वानुभवमन्तरा स्मृति: कदापि न जायत इति संप्रतिपनं सर्वेषाम् । मतः परमुखनिरीक्षणान स्मृतः प्रमात्वम् । यद्यप्यनुमानादीनामपि पूर्वानुभवापेक्षाऽस्त्येव ; अथापि अपूर्वाधविषयकत्वात् न स्मृतितौल्यम्। एवं तर्हि अपूर्वार्थविषयकत्वमेव प्रमात्वमित्यङ्गीक्रियतामिति तु न युक्तम्---धारावाहिविज्ञानानामप्रमात्वप्रसङ्गात् । वस्तुतस्तु प्रमाणलक्षणे 'अर्थोपलब्धि विदधती' इति विशेषणदानेनैव स्मृतिहेतो: प्रमाणत्वव्यावृत्तिः। अत एव प्रमालक्षणेऽप्यनुभवपदनिवेशः। अतश्च स्मृतेरनुभवत्वाभावादेव न प्रमात्वम् । किं बहुना ! शाब्दज्ञानस्य सम्बन्धग्रहणपूर्वकत्वेन सम्बन्धग्रहणकाले प्रतिभाताना.मेव शाब्दबोधे भानात् अनधिगतार्थगन्तृत्वं शाब्दबोधादौ दुरुपपादमेव ॥ : ननु ‘अर्थेऽनुपलब्धे तत्प्रमाणम्' इति जैमिनिभिः सूत्रणात् अनवगतार्थगन्तृत्वमेव प्रामाण्यं जैमिनिसम्मतमित्याशङ्कां वारयति-शब्दस्येति । वेदाख्यस्य शब्दप्रमाणस्य हि प्रामाण्यं तादृशं युक्तमेव, तत्तु न सर्वप्रमाणानुगतम् । शब्दसूत्र एव श्रवणादिति भावः ॥ . धर्मकीर्तिना प्रमाणवार्तिके 'प्रमाणमविसंवादि ज्ञानम् ; अर्थक्रियास्थितिः । अविसंवादनम्' इति कथितम् । धर्मोत्तराचार्यैश्च न्यायबिन्दुटीकायां चेदं लक्षणं सम्यक् समर्थितम् । तत्सर्वमानोड्य स्वयं तत् अतिविशदयतिअपरे पुनरित्यादि ॥
सुखदुःखेत्यादि। सुखदुःखसाधनसमर्थेत्यस्य यथासंख्यं पदार्थप्राप्तिपरिहारयोरन्वयः । निमित्तस्य प्रदर्शकत्वमित्यर्थः । अर्थप्रदर्शकत्वमेवोपपादयति-- ज्ञानेति। नन्विदमसम्बद्धमुच्यते-'प्रमाणस्य प्रदर्शकत्वमेव
1 तां-क. प्रमाणमविसंवादकत्वं-ख. भूताया:-ख. 'तं-ख.