________________
प्रमाणपरीक्षा
न्यायमचरी
प्रातिभं ज्ञानं अर्थजन्यमेव कथं तर्हि प्रातिभं अनागतार्थग्राहि 'श्वो मे भ्राताऽऽगन्ता' इति प्रत्यक्षमर्थजमिष्यते भवद्भिः ? तत्र देशान्तरे वर्तमानस्य भ्रातुः श्वोभाव्यागमनविशेषि'तस्यैव तथैव ग्रहणम् ; तेन च रूपेण गृह्यमाणस्य सतस्तस्य ज्ञानजनकत्वमिति अर्थजमेव प्रातिभम् । स्मरणं तु निर्दग्धपित्रादि वषयमनपेक्षितार्थमेव जायमानं दृष्टमिति 'अन्यत्र देशान्तरस्थितार्थस्मरणे तदर्थसत्त्वमकारणमेव ॥
तस्मादनर्थजत्वेन स्मृतिप्रामाण्यवारणात् । अगृहीतार्थगन्तृत्वं न प्रमाणविशेषणम् ॥ ६८॥
समानतन्त्रोक्तत्वात्-भवद्भिरिति । तथा च काणादं सूत्रम्- 'आप सिद्धदर्शनं च वेदेभ्यः' (1-2) इति । अत्र भाष्यम् - 'आम्नायविधातृणामृषीणां अतीतानागतवर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु ...धर्मविशेषवशाद्यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यत तत् आर्षमित्याचक्षते। तत्त प्रस्तारेण (बाहुल्येन) देवर्षीणाम् । कदाचिदेव लौकिकानाम्- यथा “कन्यका ब्रवीति ‘श्वो मे भ्राताऽऽगन्तेति हृदयं मे कथयति' इति " इति। प्रातिभं च ज्ञानं 'प्रणिधानलिङ्गादिज्ञानाना....' (न्या. सू. 3-2-33) इति सूत्रभाष्यदर्शनेन नैय्यायिकानामपि सम्मतमेव ॥
तथैव ग्रहणमिति। श्वोभाब्यागमनविशिष्टत्वेनैव देवदत्तस्य ग्रहणात् अर्थजमेव तज्ज्ञानमिति। नन्वेवं स्मृतेरपि अतीतकालादिविशिष्टघटादिरेव विषय इति तस्याः कथमनर्थजत्वमिति शङ्कायामाह-स्मरणन्त्विति। तथा च विशिष्टस्यैवानुमानम् ; तत्र च धर्मिणः तदानीमपि सत्त्वात् नानर्थजं तत् । स्मृतिस्थले तु धर्म्यपि न तदानीमस्तीति अस्ति महान् भेद इति भावः ।
ननु प्रत्यक्षमप्यसदर्थविषयकं दृश्यत एव शुक्तौ इदं रजतमित्यादि । अतः क्वचित् अर्थजन्यत्वाभावमात्रेण सर्वत्राप्रामाण्यसाधने प्रत्यक्षादीनामपि भप्रामाण्यं स्यात् । निर्दग्धपितृस्मरणेऽपि पिता भूतकालवृत्तित्वेनैव स्मर्यते। तत्काले च पिता आसीदेव । अतः कथं स्मृतेरनर्थजत्वं तदानीं पित्रभावमात्रेण इति शङ्कायामाह--अन्यत्रेति । भयं भाव:---शुक्तिरजतादिभ्रमाणामपि
'प:-ख.