________________
प्रमाणे अगृहीतार्थमात्र वेषयतानिरासः
दानीन्तनास्तित्वप्रमेयाधिक्यलिप्सया ।
तस्याः प्रमाणतामाह सोऽपि वञ्चयतीव नः ॥ ६४ ॥ 'आविनाशक' सद्भावात् अस्तित्वं पूर्वया धिया । स्पष्टमेव, तथा चाह चिरस्थायीति गृह्यते ॥ ६५ ॥ तस्मादनुपलब्धार्थग्राहित्वे त्यज्यतां ग्रहः ।
आह्निकम् [१]
[स्मृतेः प्रामाण्यवारणम् ]
नन्वेतस्मिन् परित्यक्ते प्रामाण्यं स्यात् स्मृतेरपि ॥ ६६ ॥
न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृनम् । अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम् ॥ ६७ ॥
[स्मृतेरनर्थजत्वोपपादनम् ]
ननु कथमनर्थजा स्मृतिः ? तदारूढस्य वस्तुनः तदानीमसत्त्वात । कथं तर्हि भूतवृष्यनुमानं नानर्थजम्; तत्र धर्मिणोऽनुमेयत्वात् तस्य च ज्ञानजनकस्य तत्र भावात् । नद्याख्य एव धर्मी वृष्टिमदुपरितन देशसंसर्गलक्षणेन धर्मेण तद्वाननुमीयते विशिष्टसलिलपूरयोगित्वात् । स चानुमानग्राह्यो धर्मी विद्यत एवेति नानर्थजमनुमानम् ॥
"
59
नोपपादयितुं शक्यमित्याह यश्चेति । आहेति । लोक इति शेषः । इतिः मिवक्रमः ॥
एतस्मिन् - अनधिगतार्थगन्तृत्वरूपे विशेषणे । समाधत्ते नेति ॥ अपवरकनिहितं घटं स्मृत्वा प्रवर्तमानस्यार्थलाभात् कथमनर्थजत्वं स्मृतेरित्याशङ्कते । नवति । समाधत्ते - तदारूढस्येति । स्मृतौ विषयीभूतस्येत्यर्थः । तदानीं स्मरणकाले । तद्वान् -धर्मवान् - वृष्टि - मदुपरितनदेश संसर्गवान् इति यावत् । इयं नदी वृष्टिमदुपरितन देश संसर्गवती, कलुषात्यन्त वेगवत्परिपूर्ण प्रवाहवत्त्वात् — इत्यनुमानाकारो बोध्यः ॥
1 अविनाशक- क.