________________
प्रमाणपरीक्षा
[न्यायमचरी नैवाधिकपरिच्छेदः प्रमाणैरुत्तर वम् ।
धारावाहिकबोधेषु कोऽधिकोऽर्थः प्रकाशते ॥ ६१ ॥ . न हि स्वहस्ते शतकृत्वोऽपि 'परिदृश्यमाने केचन विशेषाः परिस्फुरन्ति ॥
ननु गृहीतेऽपि विषये प्रवर्तमान प्रमाणं कदा विरमेत् ? न हि तस्य विरतो "कश्चिदवधिमधिगच्छामः। प्रमो. त्पादस्त्ववधिरनेन लजित एव-उच्यते--विषयान्तरसम्पर्काता श्रमाद्वा' उपायसञ्जयाद्वा विरामो भविष्यति ॥
अनवस्थापि चेयं न मूलघातिनी। न हात्तरोत्तरविज्ञानोपजननं विना प्रथमज्ञानोत्पादो विहन्यते ॥
मूलक्षतिकरीमाहुरनवस्थां हि दूषणम् । मूलसिद्धौ त्वरुच्याऽपि नानवस्था निवार्यते ॥ ६२॥ यदि चानुपलब्धार्थग्राहि मानमुपेयते । तदयं प्रत्यानिज्ञायाः स्पष्ट एव जलांजलिः॥१३॥
नैवेत्यादि। कालस्यातीन्द्रियत्वस्य साधयिष्यमाणत्वात् तत्तत्कालादिविषयत्वेन भेदोपपादनं न संभवत्येव । केचनेति अपूर्वा इति शेषः ।
लखित एवेति । एकदा प्रमोत्पादनेनैव करणानि हि चरितार्थानि । पुनःपुनरुत्पादने तु अवसानमेव न स्यादिति भावः ॥ ।
ननु एतावत्पर्यन्तं प्रमाऽनुवर्तत इति यदि न नियमः, कथं तर्हि व्यवस्था इति शङ्कायां एतादृश व्यवस्थाभावो न दोषायेति समाधत्तेअनवस्थापीति । उपजननं विना-उपजननाभावे। उत्पन्नं हि ज्ञानमुत्पन्नमेव, न तस्योत्तरत्रानुवृत्त्याऽननुवृत्त्या वा विघातसंभवः। यावत्कारणमनुवर्तताम् , का हानिरिति भावः। न हीति । योग्यविभुविशेषगुणा हि स्वानन्तरोत्पन्नविशेषगुणनाश्या इत्यर्थः ॥
जलाअलिरिति । तत्तांशे गृहीतग्राहित्वात् इति भावः। तथा च क्षणभङ्ग एव सिद्धयेदित्याशयः। विशिष्टवेषेणानधिगतार्थविषयकत्वमपि
न-ख.
तस्य-क.
किश्चि-ख.
दृश्यमाने-ख. 5 प्रमादादा-ख,
न-क