________________
आह्निकम् १] प्रमाणे अगृहीतार्थमात्रविषयतानिरास:
57 'कस्य चैष' पर्यनुयोगः ? न प्रमाणस्य, अचेतनत्वात् । पुंसस्तु सन्निहिते विषये करणे च संभवन्ति ज्ञानानीति सोऽपि क्रिमनुयोज्यताम् ! किमक्षिणी निमील्य नास्से, कस्मात् दृष्टं विषयं पश्यसीति ? प्रमाणस्य तु न किञ्चिद्वाधं पश्यामः, येन तदप्रमाणमिति व्यवस्थापयामः। न च सर्वात्मना वैफल्यं, हेये अहिकण्टकवृकमकरविषधरादौ विषये पुनःपुनरुपलभ्यमाने मनस्सन्तापात् सत्वरं तदपहानाय प्रवृत्तिः; उपादेये'ऽपि' चन्दनधनसारहारमहिलादौ परिदृश्यमाने प्रीत्यतिशयः स्वसंवेद्य एव भवति ॥
धारावाहिविज्ञानानि समानविषयाण्येव यञ्चेदमुच्यते
यत्रापि स्यात् परिच्छेदः प्रमाणैरुत्तरैः पुनः । • . नूनं तत्रापि पूर्वेण सोऽर्थो नावधृतस्तथा ॥
(श्लो. वा. 1-1-2. श्लो. 74) इति तदपि न हृदयङ्गमम् । यतःwww.rr
प्रश्नानवसरमेवोपपादयति-कस्य चेति । किमक्षिणी निमील्य.... पश्यसीति अनुयोज्यतां किम् ? इत्यन्वयः। बाधः-नेदं रजतमित्यादिवदुत्तरकालिकः । एतदुक्तं भवति -ज्ञानं न पुरुषतन्त्रम्, अपि तु करणतन्त्रम् । तथा च दृष्टेऽप्यर्थे चक्षुः पुनः ज्ञानमुत्पादयत्येव । तस्य च बाधाद्यदर्शनात नाप्रामाण्यं वक्तुं शक्यम् । अन्यथा धारावाहिविज्ञानस्य प्रामाण्यं न स्यात् इति। अधिकमन्यत्र ॥
गृहीतग्राहिणोऽपि प्रयोजनमुपपादयति-न चेत्यादिना। 'जन्ममृत्युजरान्याधिदुःखदोषानुदर्शनम्' इत्यादिना दोषानुदर्शनस्य वैराग्यहेतुत्वं भगवतोकम् । परिदृश्यमान इति। पुनःपुनरिति भावर्तते । तथा चोक्त भगवता-- 'ध्यायतो विषयान् पुंप: सङ्गस्तेषूपजायते' इति । स्वसंवेद्यः-- भात्मसाक्षिकः ॥ ____ यत्रापीति। यस्मिन् विषये उत्तरैः प्रमाणैः पुन: परिच्छेदःविषयीकरणं स्याश्चेत् , तत्रापि पूर्वेण ज्ञानेन तथा-अन्तत: तत्कालवृत्तित्वादिना वा नूनं नावहतः। उत्तरज्ञानविषयः कालादिः पूर्वज्ञाने न विषयो भवतीत्यनवगतार्थगन्तृत्वं धारावाहिज्ञानस्य वर्तत एवेत्याशयः ॥
'कस्यैष-क. सन्निहिते-ख. कित्रिदृश्य-क. हि-क.