________________
56
प्रमाणपरीक्षा
[न्यायमजरी बाह्यार्थनिरस्ता त्वया सौगतवत् कृतः। स्वप्रकाशमते युक्तं न फलं संविदात्मकम् । तस्मात् फलानुमेयस्य व्यापारस्य न मानता ॥ ६० ॥
[गृहीतग्रहणेऽपि प्रामाण्यं वर्तत एव] यदपि प्रमाणविशेषणमनधिगतःर्थग्राहित्वमभिधीयते परैःतदपि न सांप्रतम् -प्रमाणस्य गृहीततदिनरविषयप्रवृत्तस्य प्रामाण्ये. विशेषाभावात् ॥
ननु 'गृहीत'विषये प्रवृत्तं 'प्रमाणं किं कुर्यात् ? अगृहीतेऽपि किं कुर्यात् ' ? 'प्रमामिति चेत्; गृहीतेऽपि तामेव 'विधत्ताम् । कृतायां करणायोगादिति चेत्-न -प्रमान्तर कर णात्। प्रमान्तरकरणे किं फलमिति चेत्-प्रमान्तर करणमेव फलम नच फलस्य फलं मृग्यम । न च प्रयोजनानुवर्ति प्रमाणं भवति। . ज्ञानस्यापि भानम्। अतश्च न स्मृतित्वभानापादनप्रसक्तिरिति चेत् सौगतसन्दर्शितोऽयं पन्थाः न वैदिकादरणमर्हति। अर्थाकारातिरिक्त; ज्ञानाकारो यतः नोपलभ्यते, अत: ज्ञानाकारार्थाकारयोरैक्यं सिद्धयेत् । तेन च मिथुपादप्रसरणन्यायेन सर्वसंप्रतिपन्नज्ञानाकारेणैव निर्वाहे अर्थाकारः कल्पितोऽप्युपपद्यत इति बाह्यार्थनिह्नव एव तदुक्तदिशा सिद्धयेत्। मत: अर्थाकारातिरिक्तः स्मृतित्वाद्याकार: एषितव्य एव । ज्ञानानां स्वप्रकाशत्वे च स्मृतित्वस्यापि ग्रहणावश्यंभावेन अख्याति(स्मृतिप्रमोष)वाद एव नवतिष्ठेतेति ज्ञानानां न स्वप्रकाशत्वं युक्तम् । न युक्तं च संवेदनप्राकट्याउनु मेयस्य ज्ञानस्य क्रियात्मकतेति ॥
परैः भाट्टैः। तथोक्तम्-'तस्मात् दृढं यदुत्पन्नं न च संवादमृच्छते। ज्ञानान्तरेण विज्ञानं तत्प्रमाणं प्रतीयताम् ' ॥ (श्लो. वा. 1-1-2 श्लो. 10) इति । तदितरेति । अगृहीतेत्यर्थः ।
नन्वस्ति विशेष. प्रयोजनतदभावरूप इति शङ्कते- नन्विति । नच प्रयोजनानुवर्ति प्रमाणमिति । तथा च न पर्यनुयोगावकाश इत्यर्थः ।
गृहीते-क. प्रवृत्तं प्रमाण-ख. कुर्यात्-ख. प्रमाणमिति क. विदधातुम् -ख. प्रमाणान्तर-क,