________________
माहिकम् १] शाततानिराकरणम्
55 भट्टपक्षात् विशेषश्च न कश्चित् कथितो भवेत् । नोभयातिशयोऽप्येषः दोषद्वितयसम्भवात् ॥ ५४ ॥ संवेदनं च तत् केन ग्राह्य ज्ञानानुमापकम् । अनवस्था भवेदस्य ज्ञाने संवेदनान्तरात् ॥ ५५ ॥ स्वसंवेद्या च संवित्तिः उपरिष्टान्निषत्स्यते । स्मृतिप्रमोष'वादे च' रजतस्मरणात्मिका ॥ ५६ ॥ कथं ते फलसंवित्तिः स्वप्रकाशा भविष्यति । नाभाति स्मृतिरूपेण न चाप्यनुभवात्मना ॥ ५७॥ न तृतीयः प्रकागेऽस्ति तत् कथं सा प्रकाशताम् । न च क्वचिदनाकारा संविनिरनुभूयते ॥ ५॥ इयं संविदयं चार्थ इति 'नास्ति हि मेदधी। अर्थाकारानुरक्ता तु यदि संवित् प्रकाशते ॥ ५९॥
भट्टपक्षादिति। संवेदनस्यार्थगतातिशयरूपत्वात् भासम्मत. प्राकटयस्थाने संवेदनं मूर्धाभिषिक्त नान्यो विशेष इत्यर्थः । उभयं-ज्ञाता, विषयश्च । - दूषणान्तरमाह -संवेदन मिति । ज्ञानानुमापकं तञ्च संवेदनं केन ग्राह्य इत्यन्वयः। यदि न केनापि, तर्हि लिङ्गज्ञानाभावान्नानुमानोदयः। यद्यन्येन, तीनवस्था । यदि च स्वप्रकाशं, तत्तृत्तरत्र दूष्यते इति दूषणाशयः । उपरिष्टात्-विज्ञानाद्वैतनिरासावसरे प्रामाण्यस्वतस्त्वनिराकरणावसरे च । ज्ञानानां स्वप्रकाशत्वे बाधकमप्याह - स्मृतीति । भ्रमस्थले अख्यातिवादिनस्ते एवं वदन्ति-शुक्तिप्रत्यक्षं रजतस्मरणं चेति ज्ञानद्वयरूपमेव इदं रजतमिति ज्ञापम् । तत्र रजतस्मरणं न स्मृतित्वेन गृह्यते इत्यख्यातिरुपपद्यत इति । एतस्मन् वादे स्मृतित्वस्याग्रहणं कथम् ? ज्ञानं खलु स्वप्रकाशम् । यदि च ज्ञारग्रहणेऽपि तद्गतं स्मृतित्वं न गृहीतं, तर्हि प्रामाण्यमपि तथेनि युक्तम् । ननु स्मृतत्वाकाराग्रहणेऽपि स स्वप्रकाशा भवत्येवेति चेत्--न--निर्धर्मकस्य ज्ञानस्य भागसंभवात् । स्मृतित्वं न गृहीतं, अनुभवत्वमपि न गृहीतं, तई केनकारेण तज्ज्ञानं भासते? यदि ज्ञानत्वमात्रेण, तदा प्रामाण्यमपि न भारत। किञ्च ज्ञानस्य सामान्यतो भानं तु न संभवति । निराकारज्ञानभानासंभवात् । विषयोपरागे च तदधीनं स्मृतित्वप्रत्यक्षत्वादिकमपि भासेत॥
ननु विषयोपरागातिरिक्तः ज्ञानाकार एव नास्ति। अतो विषयाकारेणैव
वादेऽपि-क.
नास्ति च-क.