________________
54 प्रमाणपरीक्षा
न्यायमञ्जरी - न स्युः, सम्बन्धितयोत्पादादिति चेत् - अकारणमेतत्'अर्थस्यैव हि' प्रकाशत्वमतिशयः दीपादेरिव', न पुरुषनियमेन व्यवतिष्ठते ॥
न च द्वित्वादिना साम्यं तस्मिन् नियमदर्शनात् । प्रकाश तु न दीपादौ सम्बन्ध नियमः क्वचित् ॥ ४९ ॥ यदपेक्षा धिया जातं 'द्वित्वं तस्यैव तद्हः। संवेदनमपि प्राज्ञैः कस्यातिशय उच्यते ॥ ५० ॥ 'ज्ञातुश्चदन्तराऽन्येन व्यापारेणास्य को गुणः । ननु नैव क्रियाशून्यं कारकं फलसिद्धये ॥५१॥ उक्तमत्र क्रिया ह्यषा यथादर्शन मिष्यताम्। ज्ञानं संवेदनं 'चेति' विद्मः पर्यायशब्दताम् । ५२ ॥ . संवेदनं तु ज्ञानस्य फलत्वेन न मन्महे।
अर्थातिशयपक्षे च सर्वसर्वज्ञता पुनः ॥ ५३ ॥ नीलो घट: कंचित्प्रति नीलः, अन्यं प्रत्यनीलो भवेत् ; तद्वत् प्रकाशस्याप्यर्थधर्मत्वे सर्वान् प्रत्यविशेषप्रसंगेन सर्वे सर्वज्ञाः स्युः ॥
सर्वसर्वज्ञतापत्तिं परिजिहीर्षति-न स्युरिति। सम्बन्धितयोत्पादादिति । प्रकाशस्य सप्रतियोगिकपदार्थत्वात्, प्रकाशते इत्युक्ते के प्रति, कि प्रकाशते इति सम्बन्धाकाङ्क्षाया नियतत्वेन सर्वान् प्रति नाविशेषप्रसङ्गः। यथा खलु पदार्थधर्मोऽपि द्वित्वादिः न सधैर्गृह्यते तथेत्यर्थः । न व्यवतिष्ठत इति। न हि दीप: एकं प्रति प्रकाशते, तदैवान्यं प्रति न प्रकाशत इत्यर्थः ।
द्वित्वादिसाम्यं प्रकाशस्य परिहरति-न चेत्यादि। अयं भावःद्वित्वादिकं तु अपेक्षाबुद्धिजन्यं वयमिच्छामः। अतस्तेषां पदार्थधर्मत्वेऽपि प्रकाशरूपत्वाभावात् न सर्वसाधारण्यम् । प्रकाशाख्यस्तु धर्म: यदि वस्तुनः स्यात् स कथमन्यस्याप्रकाशरूपः स्यात् इति ॥
___ केचित्तु प्रकाशस्थाने संवेदनाख्यमङ्गीकुर्वन्ति। तमपि पक्षं पूर्ववदेव विकल्प्य दूषयति : संवेदनमपीति । अन्तराऽन्ये नेति। पुरुषसंवेदनयोर्मध्ये ज्ञानाख्यातिरिक्तव्यापारेण किं प्रयोजनमित्यर्थ. ॥
__अर्थस्यैव-क. दीपादिरिव-क. 3 सम्बन्धि-क. धिया ज्ञातं-कः धियो जातं-ख. 5 द्वित्वमस्यैव-क.. ज्ञातुश्चदन्तर-क. 'वेति-ख. तु-ख.