________________
53
आह्निकम् १]
शाततानिराकरणम् यदि च क्रियात्मकं ज्ञानमभविष्यत , न भाष्यकारः क्रियातः पृथगेनं 'निरदेक्ष्यत'; निर्दिशति च 'बुद्धिकर्मणी अपि हि प्रत्यमिशायेते, ते अपि नित्ये प्रामुतः ' इति तस्मात् अन्यत् ज्ञानं, अन्या च क्रियेति न क्रियास्वभावत्वान्नित्यं परोक्षं ज्ञानम् ॥
[नित्यपरोक्षस्य ज्ञानस्यानुमेयत्वमपि न संभवति] यदि च नित्य परोक्षो 'ज्ञात'व्यापारः, स तर्हि प्रतिबन्धा. ग्रहणादनुमातुमपि न शक्यः। क्रियाविशिष्टबाह्यकारकसिद्धान्तस्य निरस्तत्वात् ॥
आत्माद्यनुमाने का वार्ता? इति चेत्-न तत्र सामान्यतो व्याप्तिग्रहणस्य संभवादिति वक्ष्यामः । इह तु बाह्यकारकेष्वपि न तत्पूर्वकं फलं दृष्टमित्युक्तम् ॥
न चार्थापत्तिरपि ज्ञातृव्यापारकल्पनायव प्रभवति ; इन्द्रियार्थसन्निकर्षवशादेवार्थदृष्ताया घटमानत्वात् ॥
प्राकट्यस्वरूपपरिशीलनम् • का चेयमर्थस्य दृष्ता नाम ? किं दर्शनकर्मता? किंवा प्रकाशस्वभावतेति ? तत्र दर्शनस्य परोक्षत्वात् कथं तत्कर्मता-- अर्थस्य दृष्टता गृह्येत। विशेषणाग्रहणे विशिष्टप्रतीतेरनुत्पादात् । अर्थप्रकाशतायास्तु सर्वान् प्रत्यविशेषात् सर्वे मर्वज्ञाः स्युः ॥
__ प्रतिबन्धाग्रहणादिति। न्याप्तिग्रहणासंभवादिति यावत्। ननु कुतोऽसंभवः, विशेषतो दृष्टस्यानुमानस्याभावेऽपि सामान्यतोदृष्टानुमानस्य संभवादित्यत्राह-क्रियेगि। ज्वलनभरणाद्यतिरिक्तायाः पाकादिकियाया निरस्तत्वात् तदृष्टान्तेन सामान्यतोदृष्टानुमानेनापि न साधनसम्भव इति भावः । . वक्ष्यामः-सप्तमाह्निक इति शे३ः। तत्पूर्वकम्-अतीन्द्रियक्रियापूर्वकम् ॥
यञ्चोक्त–'नान्यथा ह्यर्थसद्भावः' इत्यादि । तत्राह-न चेति ॥
विशेषणाग्रहणे विशेषणस्य-दर्शनस्य मतीन्द्रियत्वेन अग्रहणे । सर्वान् प्रत्यविशेषादिति । नीलादयो यर्थधर्माः सर्वसमानाः, न हि
निरदेक्ष्यत्-क. नित्यपरोक्ष-ख. मर्थ-ख. दृष्टस्वात्-ख.
नित्यो-क.
बान-ख,