________________
57
प्रमाणपरीक्षा
न्यायमञ्जरी
भावनाऽपि न पुरुषव्यापारः एतेन भावनाख्यः कगेत्यर्थः पुरुषव्यापारो वाक्यार्थ इति योऽभ्युपगतः सोऽपि प्रत्युक्तो वेदितव्यः ! न हि पुरुषव्यापारः कश्चिदुपलभ्यते। विशिष्टगुणसमवाय एवास्य कर्तृत्वम् । न च झानादयो गुणा एव व्यापार संज्ञावाच्याः, सिद्धस्वभावत्वात् ।
[ज्ञानं न क्रियारूपम् ननु क्रियावचनो धातुरिति जानातेरपि क्रियैव वाच्या स्यात्। सा च क्रिया ज्ञानात्मा पुरुषव्यापारः - नायं नियमः क्रियावचनो . धातुरिति । 'गडि वदनैकदेशे' इत्यपि दर्शनात् ।। ___ अपि च 'घटमहं जानामि' इत्यत्र भवतः किं प्रति भासते। घटमिति तावद्विषयः', अहमित्यात्मा; जानामीति तु चिन्त्यंक्रिमत्र प्रकाशन इति । न व्यापारः, परोझत्वात् । फलं यद्यत्रं प्रकाशत'-- तदेव तर्हि धातुवाच्यमभ्युपगतं भवति । तस्मान्न क्रियात्मकं ज्ञानम्॥
एतेन - अतीन्द्रियपुरुषव्यापारनिराकरणेन । अभ्युपगतः-भाट्टैरिति शंषः। पचतीत्यस्य खलु पाकं करोतीति विवरणम्। तेन आख्यातं करोतिसमानार्थकमुक्तम् । पाख्यानस्य च अर्थभावनाख्यः पुरुषव्यापारोऽर्थः। स च न प्रयनपदवाच्यः गुणः, किन्तु क्रिया इति तेषां मतम्। विशिष्टगुणसमवाय एवेति । 'प्रयते' इत्यनुन्यवसानियामकाकारविशेषविशिष्टप्रयत्नाख्यगुणवत्त्वमेव पुरुषम्य कर्तृत्वम् । प्रयत्नश्च न क्रियारूपः, किन्तु गुण इति न पुरुषव्यापारः अतिरिक्तः सिध्यतीति । सिद्धस्वभावत्वादिति। क्रिया हि साध्यस्वरूपा। ज्ञानादयस्तु घटादिवत् सिद्धपदार्थस्वरूपाः । अतः यत्नः न क्रिया, किन्तु गुण एव ॥
गडि वदनैकदेश इति। यद्यपि बदनैकदेशक्रियेव धात्वर्थ इत्युक्तं वैयाकरणैः; अथापि 'भू सत्तायां', 'अस भुवि' इत्यादौ सत्तादीनां सिद्धस्वरूपाणां धात्वर्थतायाः अवश्यवक्तव्यत्वेन प्रकृतेऽपि तथैवास्त्वित्याशयः ॥
क्रियाया एव धात्वर्थत्वमित्यत्र बाधकमप्याह-अपि चेत्यादि । परोक्षत्वादिति । भवत इति वर्तते ॥
प्रत्य-ख. 'घटमिति विषयः-क.
प्रकाश्यते-क.