________________
आह्निकम् १]
ज्ञाततानिराकरणम् पचतीति व्यपदेशो दृश्यते। देवदत्तस्यापि दीविघट्टनादिरेव परिदृश्यमानस्तत्र 'व्यापारः, न ततोऽन्यः सूक्ष्मः ॥
आत्मनो न क्रिया] 'ननु देवदत्तादेौतिको व्यापारः आत्म'व्यापारपूर्वको भवितुमर्हति नैतदेवम्-न ह्यात्मनो व्यापारः कश्चिदस्ति । इच्छाद्वेषपूर्वक प्रयत्नवशादेव स भौतिकव्यापारकरणतां प्रतिपद्यते ॥
तस्मात् कारकचक्रेण चलता जन्यते फलम् । न पुनश्चलनादन्यो व्यापार उपलभ्यते ॥ ४७ ॥ चलन्तो देवदत्ताद्याः तदनन्तरमोदनः । एतावद्देश्यते त्वत्र न त्वन्या काचन क्रिया ॥४८॥
~~..i mar. काष्ठादीनां करणत्वादिक सर्वसम्मतम्, विवक्षाभेदेन तु काष्टानि पचन्तीत्यादि प्रयोग इति पूर्वमेवोक्तम् । अत एव विविच्य प्रश्ने काष्ठानि ज्वलन्ति, न तु पचन्ती स्येवोच्यते, न तु कदाऽपि देवदत्त: न पचतीत्याशंकायामाह-देवदत्तस्यापीति। अयं भावः-देवदत्तः पचतीत्युक्ते देवदत्तो वा किं करोति ? दर्वी विघट्टयति, काष्ठानि चालयति, अग्निं ज्वालयति ; न त्वेभ्यो विलक्षणं पाकाख्यं किञ्चित्कर्म करोति। 'स्वतन्त्रः कर्ता' इतरकारकाणां कधीनत्वेन कर्तुः प्राधान्यात् देवदत्तनिष्ठत्वेन पाकस्य व्यवहारः। अत एव यत्र कर्तवैशिष्टयं विना सामग्रीवैशिष्ट्यादेव फलनिष्पत्ति:, तादृशस्थले करणादीनामपि प्राधान्यविवक्षया काष्ठानि पचन्ति, असिः छिनत्ति, चक्षु: पश्यति इत्यादिव्यवहारः। अतश्च पाकादिर्नातिरिक्ता सुक्ष्मा क्रियेति ॥
भौतिकः-शारीरकः। अचेतनव्यापारस्य चेतनव्यापारपूर्वकत्वात् मात्मव्यतिरिक्तोऽतीन्द्रियो व्यापारः सिद्ध एवेत्यर्थः । न हीति। विभोरात्मनः परिस्पन्दलक्षणक्रियाया असंभवादिति शेषः। सः-आत्मा। चलनं
क्रिया ॥
1 न्यापारः-ख. - लभ्यते-क.