________________
प्रमाणपरीक्षा
न्यायमचरी
सम्बन्धः? फलं सिद्धं, कारकाणि सिद्धानीति सम्बन्धाभावः । साध्यं चेत् फलं, सैव क्रिया परिस्पन्दव्यतिरिक्तति-मैवं वाचःफलस्य क्रियात्वानुपपत्तः। ओदनं हि फलं', न क्रिया; क्रियानानि तु क्रियमाणे न विवदामहे :
[पचतीत्यादौ पाकशब्दार्थ:] ननु पाक इदानीं कः? न च पचेर्वाच्यशून्यतैव युक्तांउच्यते - समुदितदेवरत्तादिसकलकारकनिकरपरिस्पन्द एव विशिष्टफलावच्छिन्नः पाक इत्युच्यते : स एव हि पचेरर्थः । ता एव काष्ठपिठगदिक्रिया ज्वलनभरणादिस्वभावाः पृथक्तया. व्यवस्थित: 'तथात्वेनैवावभासन्ते; समुदितास्तु सत्यः फलान्तगवच्छेदात् रूपान्तरेण पाका दना परिस्फुरन्ति, व्यपदिश्यन्ते च। तथा च देवदतः पचतीतिवत् काष्ठानि पचन्ति, स्थाली
रेकेण समुदायेन फलनिर्वर्तने प्रत्येकमपि तत् कारकं भवेदेवेति । अतिरिक्ता तु क्रिया न सिद्धा। यदि सिन्दा स्यात् तदा कथंचिन्निर्वाहो वाच्यः। “तद्धेतो. रेव तद्धेतुत्वे मध्ये किं तेन ?” इति न्यायेन कारकैः फलनिर्वतनमित्यंगीकार एव युक्तः, न तु मध्ये अतिरिक्ताया अतीन्द्रियायाश्च क्रियायाः सिद्धौ प्रमाण पश्याम इति । ननु कारकैः साध्यं तु किञ्चिदुभयसम्मतम् । तत् फलमिति भवन्तो ब्रुवते, क्रियेति तु वयम् । अत: कुतोऽस्मासु प्रद्वेषः इति चेत्, नैवं सति वयं विवदामहे । कारकस्य फलस्य च मध्येऽप्रामाणिकी अतिरिक्तां तु क्रियां नानुमन्यामह इति । सम्बन्धाभाव इति। सिद्धानि वस्तूनि निराकांक्षाणि। साध्यानां हि सिद्धकारकापेक्षेत्यर्थः ।।।
इदानी-ज्वलनाद्यपेक्षयाऽतिरिक्तक्रियाया अनङ्गीकारे। पाकः क इति। पाकशब्दार्थ: क इत्यर्थः । पचेः-पचधातोः। विशिष्टफलावच्छिन्नःविक्लप्सयादिरूपविलक्षणफलोदृश्यकः । ननु यदि पचधातोरतिरिक्तोऽर्थो न स्यात् तदा देवदत्तः पचतीति पाकस्य देवदत्तक्रियात्वेन व्यवहारः कथम् ? काष्ठादि क्रियात्वं पाकस्य कुतो न स्यादिति शङ्कायां उभयोस्तौल्यमेवाङ्गीकरोति-- तथा चेति। ननु देवदत्त: कारैः स्थाल्यां तण्डुलं पचति इति प्रयोगात्
न फल-क.
' तथैवा-क.