________________
49
आह्निकम् १]
शाततानिराकरणम् 'मेल'नात क्रियासिद्धौ पनरेकैकमक्रियम। नथा सति न काष्ठानि ज्वलेयुः पिठराद्विना ॥४६॥
'ननु पिठराद्विना काष्ठानि ज्वलन्ति, न तु पचन्ति-मैवम् -सत्यपि पिठरे ज्वलन्त्येव काष्ठानि, नान्यत् कुर्वन्ति दृश्यन्ते । तस्मात् क्रियान्तराभावात फलमेवोररीकृत्य कारकाणि संसृज्यन्ते ॥
[फलमन्यत् , क्रिया चान्या] ननु फलमपि सिद्धं चेत् कः सर्वेषां सिद्धस्वभावानां
द्वितीयं विकल्पं प्रत्याह-मेलनात्त्विति । मेलनानन्तरमिति यावत । न ज्वलेयुरिति । तण्डुलसलिलानलस्थाल्यादीनि हि मिलितान्येव क्रियानिर्वर्तकत्वात्कारकाणि भवेयुरिति प्रत्येकं सत्त्वे कारकत्वाभावात् क्रियाशून्यत्वापत्त्या विना तण्डुलादिकं काष्ठं न ज्वलेदित्यर्थः ॥
ननु पाकक्रिया अन्या, अन्या च ज्वलनक्रिया, तथा च प्रत्येक काष्ठादि पाकनिरूपितकारकत्वशून्यमपि, ज्वलननिरूपितकारकत्वविशिष्टत्वात् प्रत्येक ज्वलननिर्वर्तने न काऽप्यनुपपत्तिरिति शङ्कते- नन्विति । मैवमिति ! पाकादिक्रियानिवर्तनकालेऽपि हि काष्ठानां प्रत्येकं सतां यादृशी ज्वलनक्रिया, न ततो विलक्षणा दृश्यत इति अतिरिक्तातीन्द्रियक्रियासिद्धिर्न भवत्येवेति ॥
नन्विति । अयं भावः----कारकैः फलमेव निर्वय॑ते, न क्रियेति । • सिद्धान्तेऽपि सिद्धयसिद्धिभ्यां व्याघातः समानः-किं सिद्धन फलेन कारकाणां सम्बन्ध: ? उतासिद्धेन ! आये फलस्य सिद्धत्वात् कारकव्यापारवैय्यर्थ्यम् । अन्त्येऽस्मत्पक्षादविशेषः, प्रत्येकं कारकैः फलनिष्पत्त्यभावेन कारकत्वासंभवात् । अतः उभयोः समानोऽयं दोष इति चेत्-- सत्यं-परन्तु दोषस्य समानत्वेऽप्यतिरिक्तातीन्द्रियक्रियाङ्गीकरण किमर्थमिति वक्तव्यम् ? यदि च तादृशक्रियाङ्गीकारे सर्वोऽपि दोषः सुपरिहरः स्यात्, अङ्गीकुर्मस्तदा तादृशीं क्रियाम् । 'भक्षितेऽपि लशुने न शान्तो व्याधिः' इति न्यायेन तदङ्गीकारेऽपि दोषसाम्ये फलशून्यं तत् परित्यज्यताम् , क्लुप्तेनैव यथा निर्वाहो भवेत् तथा उपाय उभावप्यावामन्विष्यावः । कोऽयमुपाय इति चेत् ? प्रत्येकस्य समुदायानति
1 मिल-ख. काष्ठानि-ख. NYAYAMANJARI