________________
48
प्रमाण परीक्षा
न्यायमचरी असति च तस्मिन् किमधिकृत्य कारकाणि संपज्येरन्नित्युक्तम्तदयुक्तम् -यं तमेकं धात्वर्थ साध्यं बुध्यसे, स किं समुदितसकलकारकसम्पाद्यः? एकैककारकनिर्वयों वा?
तत्राद्यपक्ष एकैकं भवेत्कारकमक्रियम् । एकैकनिष्क्रियत्वे 'च' साकल्ये ऽपि कुतः क्रिया ॥ ४३॥ .
उत्तरस्मिन् पक्षे प्रत्येकमपि पाकक्रियायोगात् कारकान्तरनिरपेक्षादेकस्मात् कारकात फलनिष्पत्तिप्रसङ्गः । न च तथाविध धात्वर्थपुरस्सरः कारकाणां संसर्गः ॥ क्रियानिमित्तसंसर्गवादिनो हि द्वयी गतिः। सत्यां क्रियायां सम्बन्धः? सम्बन्धे सति वा क्रिया ॥ ४४ ॥ 'मेलनात् पूर्व सिद्धायां क्रियायां मेल नेन किम ? तथा च जन्येत फलं विभक्तैरपि कारकैः ॥ ४५ ॥
किमधिकृत्येति । पाकरूपैकक्रियोद्देशेन हि काष्ठादीनां ज्वलनादीति भावः। तत्राद्यपक्ष इत्यादि। पाकादिरूपायाः क्रियाया हि कारकसमुदायसंपाद्यत्वमुक्तम्, एवं तर्हि प्रत्येकं स्यात् । क्रियाशून्यत्वेनाकारकत्वे समुदितैरपि क्रिया न निर्व]त ; न हि शतमप्यन्धाः पन्थानं पश्यन्तीति भावः ॥
उत्तरस्मिन् पक्षे प्रत्येकमेव कारकैः पाकादिनिर्वर्त्यत इति पक्षे । तथाविधेति। काष्ठादिगतज्वलनाद्यतिरिक्त: अतीन्द्रियः पाकादिरूपः इत्यर्थः ॥
पाकादिक्रियानिमित्त एव कारकाणां मेलनमिति पक्षे, किं सिद्धया पाकादिक्रियया कारकाणि संसृज्यन्ते, उत असिद्धया-साध्यया क्रिययेति विकल्प्य दूषयति--क्रियानिमित्तत्यादि । मेलनादिति। आये पक्षे पाकादिक्रियायाः कारकमेलनात्पूर्व सिद्धत्वात् मेलनवैयर्थ्यम् । तथा च निखिलंकारकमेलना त्पूर्वमेव क्रियाया: सिद्धया प्रत्येकं कारकै: क्रियासिद्धिः स्वीकृता भवेत् ।
1sपि-क.
मील-ख.