________________
आह्निकम् १]
शाततानिराकरणम् मत्पक्षे कारकत्वं हि नास्ति किञ्चिदतीन्द्रियम् ।
कारकत्वं स्वरूपस्य सहकार्यादिसन्निधिः ॥ ३९ ॥ • तावदेव विनिश्चित्य तदुपादीयतेऽर्थिभिः।
तदेवापाददानश्च फलमप्यधिगम्यते ॥ ४०॥ निर्व्यापारस्य सत्त्वस्य को गुणः सहकारिभिः । 'सव्यापारस्य सत्त्वस्य को गुणः सहकारिभिः । ४१ ॥ अथ' व्यापार एवैष सर्वैस्सम्भूय साध्यते । किं फलेनापराद्धं वः तद्धि सम्भूय साध्यताम् ॥ ४२ ॥
भौतिकक्रियैव करोत्यर्थः] यत्तु 'करोत्यर्थस्या प्रत्याख्येयत्वादित्युक्तं-तत्रोच्यते--परि स्पन्द एवं भौतिको व्यापारः करोत्यर्थः। न हि वयं परिस्पन्दात्मकं परिदृश्यमानं व्यापारमपद्महे, प्रतिकारकं विचित्रस्य ज्वलनादे
ापारस्य प्रत्यक्षमुपलम्भात् । अतीन्द्रयस्तु व्यापारो नास्तीति घूमहे ॥
. [भौतिकक्रियातिरिक्तकियासद्भावतदभावौ] ननु पाको नाम धात्वर्थः परिदृश्यमान ज्वलनादिव्यापारव्यतिरिक्त 'एषितव्य एव', तमन्तरेण फलनिष्पत्तेरभावात् । ____ सत्त्वस्येति । कारकस्येत्यर्थः ; 'द्रव्यासुव्यवसायेषु सत्वम्। किं सहकारिसान्निध्याहितो व्यापारः कारकेष्वतिरिक्तोऽस्ति ? उत न? आये पूर्व व्यापारस्यासरवे सहकारिभिर्वा किं क्रियेत ? यदि स्वतः सव्यापार:, तदा सहकारिमि: किं कर्तव्यम् । अथ सर्वैस्संभूय व्यापारमात्रं जन्यते, तर्हि • फलमेव जनयन्तु ते, किमन्तर्गडुनाऽतीन्द्रियेण व्यापारेणेत्यर्थः ॥ .. करोत्यर्थ इति । प्रयत्नविषये तु वक्तव्यमनुपदमेवोच्यते। अतीन्द्रियस्तु भूतनिष्ठः चेतन'नष्ठो वा व्यापारस्तु नास्त्येवेत्येतावदन वक्तव्यम् । अतीन्द्रियस्त्विति । ऐन्द्रियिकवस्तुवृत्तिरिति शेषः ॥
- 1 अथ-क.
करोत्यर्थस्य-क. ३ परि-क. एषितव्यः-क..