________________
46
प्रमाणपरीक्षा
[न्यायमञ्जरी तत्र यदि नित्या, तर्हि सर्वदा वस्तुनः क्रियायोगात् सर्वदा फलनिष्पत्तिप्रसङ्गः। अथ कारक निर्वा क्रिया, साऽपीदानी कार्यत्वात् सव्यापारकारककार्या भवेदित्यनवस्था। निष्क्रियकारककार्यवे तु 'क्रियामिव फलमपि निष्क्रियाण्येव कारकाण कुर्युरिति किं क्रियया ?
ननु करोतीति कारकम्। क्रियाs:वेशमन्तरेण च कारकत्वानुप- ' पत्तिः--सत्यं, करोतीति कारकं, तत्तु फलमेव करोति, न क्रियाम || -'
ननु करोतीति यद्षे सेयमुक्तव क्रिया' भवति। 'चैत्रः कटं करोतीति चैत्रस्येव' कटस्येव करोत्यर्थस्याप्रत्याख्ययत्वात् . तत्कृतमेव चैत्रादीनां कारकत्वम्-उच्यते-नातीन्द्रियक्रियायोगनिबन्धनः कारकभावः, क्रियाया अतीन्द्रियत्वेन तद्योगकृतकारकत्वानधिगमे व्यवहारविप्रलोपप्रसङ्गान्। क्रियाऽऽवेशकृतं हि तत्कारकत्व मनव'गच्छन्तः कथं फलार्थिनस्तदुपाददीरन् ।
अनवस्थति। सूक्ष्मायाः क्रियाया अनित्यत्वेन, हेत्वपेक्षंणात् ; हेतावपि अतीन्द्रियसूक्ष्मक्रियाया अंगीकारस्यावश्यकोनानवस्थाप्रसङ्गः। निष्क्रियेति । उपलभ्यमानक्रियाऽतिरिक्तसूक्ष्मक्रियाशून्येत्यधः ॥
क्रियाऽऽवेशमिति। न हि तूष्णों स्थित: चैत्रादिः घटादिनिवर्तको भवति। न हि स्वयं क्रियाशून्यस्य क्रियानिर्वर्तकत्वरूपं कारकत्वं संभवतीत्यर्थः ॥
ननु फलं करोतीति सत्यं, परन्तु करोत्यर्थ: या क्रिया, तमाश्रयत्वं कारकस्यावर्जनीयं खलु, कर्तरि लकारादित्यभिप्रायेण पुनश्शङ्कते-नन्वित्यादि। उक्तैव--अम्मदुक्तैव। चैत्रस्येवेति। एतस्मिन् हि वाक्ये चैत्रपदस्य कटपदस्य च यथा यः कश्चनार्थो वर्तते, तथा करोतिपदस्यापि कश्चनार्थो वर्तत एवेति तादृशक्रियानिर्वर्तकत्वात् कारकत्वमिति सिद्धमेवेति। तत्कृतं-करोत्यर्थभूतक्रियानिवर्तकत्वकृतम। तथा च विषयत्वात् कर्मत्वं यथा, तथा तादृशक्रियाकर्तत्वात् चैत्रोऽपि कर्ता भवति । क्रियाऽऽवेशाभावे निरतिशयत्वेन कर्तृकर्मव्यवहारः कथं स्यादित्याशयः ॥
1 अक्रियामिव -क. 'क्रियैव-क.
चैत्रस्यैव-क.
मनधि-क.