________________
आह्निकम् १]
शाततानिराकरणम्
45
भवितुमर्हति, ज्ञातोऽर्थ इति क्वचित्तद्दिशिष्टार्थप्रत्यवमर्शदर्शनात् ; विशेषणाग्रहणे शुक्लः पट इातेवत विशिष्टप्रतीतेरनुत्पादात् ॥
"कश्चायमियान् संत्रासः! विषयग्रहणकाले विज्ञानाग्रहणमात्रकेण बाह्यार्थ निह्नववादिनः शाक्याः शक्याः शमयितुम् ॥
[ज्ञानं न क्रियारूपम्] यत्तु 'क्रिया स्वभावत्वात्तस्य परोक्षत्वं तदयुक्तम्-न हि क्रिया स्वभावं ज्ञानम् अपि तु फलस्वभावमेव ॥
[क्रियारूपमपि ज्ञानं न नित्यपरोक्षम अपि च क्रियाऽपि प्रत्यक्षद्रव्यवर्तिनी प्रत्यक्षव . भाट्टानां' प्रत्यक्षश्चात्मा; तत् किमनेनापराद्धं, यदेतदीयक्रियाया अप्रत्यक्षत्वमुच्यते । न चोत्क्षेपणादिभेद भिन्नपरिस्पन्दात्मकव्यापारव्यतिरेकेण बाह्यकारकेष्वपि सूक्ष्मा नाम काचिदस्ति किया। सा हि यदि नित्या जातिवत्, अथानित्या रूपवत् वस्तुधर्म 'इध्येत।
तावतैव व्यवहारोपपत्तौ कल्पित एवार्थकारो न वास्तव इति बाह्यार्थमपलपन्तं प्रत्युत्तरयितुं खलु --'सत्यमेक एवाकार उपलभ्यते, परन्तु स आकारोऽर्थस्यैव, बहिष्ठत्वेन प्रतीतेः ; . न तावता ज्ञानापलापः, तस्यानन्तरमनुमेयत्वात्इत्यच्यते। किमर्थनेतावता ज्ञानस्य नित्यानुमेयत्वाङ्गोकरणम्, अर्थग्रहणकाले ज्ञानं ने गृह्यत इत्युक्तिमात्रेणैव तत्पक्षनिरासात् । तर्हि ज्ञानं दा गृह्यते इति चेदनुव्यवसायकाले इत्यन्यदेतत्। अतः बाह्यार्थसाधनबद्धकच्छै टैः संभ्रमादेव ज्ञानस्य नित्यपरोक्षत्वमङ्गीकृतमिति नर्मोक्तिगर्भदूषणसंपिण्डितार्थः । विशेषणाग्रहणे-ज्ञानरूपविशेषणबुद्धेरभावे ॥
शाक्याः - बौद्धाः ॥
फलस्वभावमिति । इन्द्रियव्यापारादिनिर्वात्मगतगुणरूपत्वादिति भावः॥
क्रियारूपत्वेऽपि न परोक्षत्वं ज्ञानस्येत्याह-अपि चेति। प्रत्यक्ष इति। औत्पत्तिकसूत्रश्लोकवार्तिके आत्मवादे अहंप्रत्ययविज्ञयो ज्ञाता न: सर्वदैव हि' इत्यादौ आत्मनः मानसप्रत्यक्षविषयत्वोक्तेरिति भाव: । अनेन-ज्ञानेन। वस्तुधर्म इत्येतत् जातिवदित्यत्रापि सम्बध्यते ।
1 अक्रिया-क. 2 स्वभावशानमपि-क.
भट्टानां-ख.
इष्यते-क.