________________
44
प्रमाणपरीक्षा
न्यायमञ्जरी भासाभावात् , अगृहीतस्यापि तस्य चक्षुरादिवदुपायत्वात् परोक्षोऽपि चासो विषयप्रकाशतालक्षणेन फलेन कल्प्यते । तदाह भाष्यकारः 'न ह्यज्ञातेऽर्थे कश्चिदुद्धिमुपलभते, ज्ञाते त्वनुमानादवगच्छति' इति । वार्तिककृताऽप्युक्तम्-...
'नान्यथा ह्यर्थसद्भावो दृष्टस्सन्नुपपद्यत ।
ज्ञानं चेन्नत्यतः पश्चात प्रमाण'मुपकल्प्यते ॥ इति । तदेष फलानुमेयो 'ज्ञात व्यापारो ज्ञानादिशब्दवाच्यः प्रमाणम् ।। इन्द्रियादीनां तु तदुत्पादकतया इन्द्रियव्यापारे' ज्ञानमुपचरति, न साक्षादिति ॥
ज्ञानस्य नित्यपरोक्षत्वनिरासः] अत्र प्रतिविधीयते--अहो बत इमे केभ्यो बिभ्यतः श्रोत्रियाः परं किमपि वैक्लव्यमुपागताः ! न खलु नित्यं परोक्षं ज्ञानं यदि प्रत्यक्षतो न गृह्येत कथं तेन व्यापारेणार्थे ज्ञातताऽख्य प्रत्यक्षं फलमुपजायेतेत्याशङ्कां परिहरति--अगृहीतस्यापीति। अयं भाव:- ज्ञातता न ज्ञानविषयत्वरूपा, किन्तु ज्ञानजन्य: विषयनिष्ठः अतिशयविशेषः। तथा च ज्ञानस्यातीन्द्रियत्वेऽपि तजन्यज्ञात तायाः प्रत्यक्षत्वं युज्यत एव, यथाऽतीन्द्रियेणापि चक्षषा घटादिचाक्षुषमिति । नन स व्यापारः यदि सदा परोक्षः. तर्हि तत्सद्भाव एव किं मानमित्यत्राह--- परोक्षोऽपीति। नित्यपरोक्षोऽपीत्यर्थः । नीलो घट इत्यादिप्रत्ययाद्यथा नैल्यादिर्घटधर्मः सिद्धयति, तथा घटो ज्ञात इति प्रत्ययात् घटे ज्ञातत्वरूप: कश्चनातिरिक्तो धर्म: सिद्धः। स च ज्ञानविषयत्वनिवन्धन इति कार्यभूतया ज्ञाततया कारणभूतं ज्ञानमनमीयते। ज्ञातता प्राकटयं, प्रकाश इत्यवमादिः पर्याय इति । भाष्यकार:-शबरः। ओत्पत्तिकसूत्रभाष्ये शून्यवादगतमिदम् । वार्तिककृता-कुमारिलेन । नान्यथेत्यादि। ज्ञानं न स्याच्चेत दृष्टस्सन्नर्थसद्भावो भन्यथा-ज्ञानाभावे नोपपद्यते, इत्यतः पश्चात्- अर्थप्रकाशानन्तरमेव ज्ञाने प्रमाणं - - प्राकटयाख्यमुपकल्पत इत्यन्वयः। अर्थप्रकाशान्यथाऽनु पत्त्या ज्ञानं सिद्धयतीत्यर्थः ॥
बिभ्यत इति । भयं 'कश्वामियान् संत्रासः' इत्यत्र सूचयति । 'अयं घटः' इत्यादौ आकारद्वयानुपलंभात् ज्ञानाकारस्योभयसम्मतत्वात
1 मुपजायते-क. ज्ञान-ख. ३ उत्पादकतया-क.