________________
आह्निकम् १]
मीमांसकः शाततासमर्धनम्
ज्ञानं हि नाम कियात्मकं, क्रिया च फलानुमेया; ज्ञातृव्यापारमन्तरेण फलानिष्पत्तेः ॥
43
संसर्गोऽपि कारकाणां क्रियागर्भ एव भवति । तदनभ्युपगमे किमधिकृत्य कारकाणि संसृज्येरन् । न चासंसृष्टानि तानि फलवन्ति । क्रियाशवशाच्च कारकं कारकं भवति । अपरथा' हि तत् वस्तुस्वरूपमात्रमेव स्यात्, न कारकम् । ततश्च न फलार्थिभित्पादीयेतेति व्यवहारविलोपः । तस्मात् यथा हि कारकाणि तण्डुलसलिलानलस्थायादी सिद्धस्वभावानि साध्यं धात्वर्थमेकं पाकलक्षणमुररीकृत्य संसृज्यन्ते, संसृष्टानि च हियामुत्पादयन्ति तथाऽऽत्मेन्द्रिय'मनोऽर्थसन्निकर्षे सति ज्ञानाख्यो व्यापार उपजायते । स च न प्रत्यक्षः ; अर्थस्यैव बहिर्देशसम्बद्धस्य ग्रहणात्, आकारद्वयप्रति
तद्भिन्नत्वं फलस्य कथमित्यत्राह - ज्ञानं हीति । क्रियात्मकमिति । धात्वर्थत्वादिति भावः । पचतीतिवत् खलु जानातीति व्यपदेशः । फलानुमेयेति । चेतनस्यैन्द्रियकत्वाभावेन तत्क्रियाया अपि ऐन्द्रियकत्वं न संभवति । फलेनैवानुमेया ज्ञानरूपा चेतनक्रियेति क्रियारूपं ज्ञानं न फलं इत्यर्थः ॥
तथा च
प्रकारान्तरेणापि ज्ञानस्य क्रियारूपत्वमुपपादयति- संसर्गोऽपीति । क्रियागर्भः क्रियाद्वारक इति यावत् । नानाविधानां हि कारकाणां कारकत्वं - क्रिया वेश मन्तरा न संभवति, स्वरूपस्य पूर्वमेव सिद्धत्वात् । तत्रापि कर्तृकर्म - करणादिकारकाणां हि कारकत्वम् एक क्रियो द्देशमन्तरा न संभवति । एवमेव आत्मेन्द्रियमनःप्रभृतीनां कारकत्वम् एकक्रियावसानकमेव वाच्यं, सैव क्रिया ज्ञानमित्युच्यत इति समुदितार्थः । ततश्च - कारकाणां क्रियावेशाभावेन कारकत्वस्यैMarera | अस्तु ज्ञानस्य क्रियात्वं, ततः किमित्यन्नाह - स चेति । अर्थो हि बाह्यः, ज्ञानं चान्तरं, तत्कथमुभयोरेकदा ग्रहणं स्यात् । किञ्च ज्ञानं खलु सविषयम् । भूतले घट इत्याद्यनुभवकाले, अयं ज्ञानांशः, अयं विषयांशः इति आकारद्वयाप्रतिभासात् प्रतीयमानः आकारः घटादिः बाह्य एव स्यात्, बहिष्ठत्वेन भासमानत्वात् इति । ननु ज्ञातता नाम ज्ञानविषयता एवं च ज्ञानरूपो व्यापारो
1
"
तथेन्द्रिय-क.
'अपरथा-क.