SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रमाण परीक्षा [न्यायमञ्जरी नापि प्रत्यक्षोऽर्थः; आकारद्वयानुपलम्भात्। अभ्युपगमे चानवस्थाप्रसङ्गात्। अर्थाकागे हि निराकारज्ञानगम्यो न भवतीति ज्ञानेनाकारवता गृह्यते ; सोऽयमिदानी ज्ञानाकारोऽपि ग्राह्यत्यात् अन्येनाकार' वता' गृह्यते, सोऽप्यन्येनेति ॥ अथ वा अगों निराकार ज्ञानग्राह्यतां नोपयातीति स्वग्राहके ज्ञानात्मनि समर्पितात्मा भवतीति' साकारं ज्ञानमेवेदं संपन्नमिति पुनरर्थोऽन्यः कल्पनीयः, सोऽपि ग्राह्यत्वात स्वग्राहकस्य साकारत्वसिद्धये तत्रैव लीयत इति साकारं ज्ञानमेवावशिष्यत इति 'पुनरन्योऽर्थ इति' इत्थमगवस्था। प्रतिकर्मव्यवस्था तु जनकत्वनिबन्धना भविष्यति, वस्तुस्वभावस्यापर्यनुयोज्यत्वात् । साकारपक्षेऽपि पर्यनुयोगसाम्यमित्यादि सर्व उपरिष्टात् सविस्तरमभिधास्यते। साकारपक्षेऽपि च न प्रमाणात् व्यतिरिक्त फलमुपदर्शितमि त्यसत्यक्ष' एवायम् ॥ . प्राकट्यलिङ्गेन ज्ञानमनुमीयत] , शाबरास्तु ब्रुवते- य एते बोधप्रामाण्यवादिनो विज्ञानादभिन्नमेव फलमभिदधति, ते बाढं निरसनीया भवन्त्येव ; वयं तु विज्ञानात् भिन्नमेव फलं दृष्टताख्यम् अभ्युपगच्छामः । तेनैव तदनुमीयते आकारद्वयं-अयमर्थाकारः, अयं ज्ञानाकार इति विषयं विषयिणं च न हि कश्चित् पृथगुपलभत इत्यर्थः। अनवस्थामेवोपपादयति--अर्थाकारो हीति ॥ प्रकारान्तरेणानवस्थामुपपादयति--अथ वेति ॥ निरसनीया इति। विज्ञानाद्वैतमतं त्वस्माकमपि निरसनीयमेव, क्रियारूपस्य बोधस्यैव फलत्वं तु न संभवतीत्यर्थः। दृष्टता-ज्ञातता प्राकटयाद्यपरपर्याया वस्तुवृत्तिधर्मः। तेन-विज्ञानफलेन प्राकट्येन तत्विज्ञानमनुमीयते। कार्येण कारणानुमानादित्यर्थः। ननु ज्ञानस्य फलरूपत्वेन ____वत्ता-ख. • भवति-क. 5 अर्थदृष्टताख्यं-ख. तेनैतदेवानु-क. पुनरर्थोऽन्य इति-ख. 'त्यस्मत्पक्ष-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy