________________
आह्निकम् १]
बौद्धाभिमतप्रमाणस्वरूपनिरास:
41
शानं 'स्वप्रकाश स्वभावमिति ग्राहम्, अर्थो जडात्मेति ग्राह्यम्इति चेत्-अयमपि विशेषस्तुल्य कालयोः कुतस्त्यः ? उपादानसहकारिकारणभेदादिति चेत्, न-तस्य क्षणभङ्गभङ्गे निराकरिष्यमाणत्वात् ॥
बौद्धकदेशिमतान्तरनिराकरणम् ] येऽपि निराकारस्य बोध स्वरूपस्य' नीलपीताद्यनेकविषयसाधारणत्वात् , जनकत्वस्य च चक्षुरादावपि भावेनातिप्रसङ्गात्, 'तदाकारत्वकृतमेव ज्ञानकर्मनियममवगच्छन्तः "साकारं ज्ञानं प्रमाणमिति प्रतिपेदिरे तेति विज्ञानाद्वैतसिषाधयिषयेवममिदधानाः तन्निरासप्रसङ्ग एव निरसिष्यन्ते । न होकमेव साकारं शानं ग्राह्य ग्राहकं च भवितुमर्हतीति वक्ष्यते ॥
अर्थस्तु साकारज्ञानवादिनो न समस्त्येवः स हनुमेयो वा स्यात् ? प्रत्यक्षो वा ? नानुमेयः; सम्बन्धग्रहणाभावात् ।
अर्थे हि सति साकारं निराकारं तदत्यये। 'नित्यानुमेय' बाह्यार्थवादी ज्ञानं क दृष्टवान् ॥ ३८ ॥
पुनश्शङ्कते-ज्ञानमिति,। अयमपि विशेष इति। तुल्यकालसामग्रथोमध्ये ज्ञानमेव स्वप्रकाशम् अर्थस्तु जड इति कथं निर्णय इति भावः। नन्वस्ति वैलक्षण्य, ज्ञानमुपादानम्, अर्थ: सहकारीति शङ्कत --उपादानेति । .. तदाकारत्वेति। ज्ञानं यदाकारं भवति, स एव तत्र विषयः, ज्ञानस्य हि भाकारो विषयाधीन इति कर्मत्वव्यवस्था भवतीत्याशयः। विज्ञानाद्वैतसिषाधयिषयेति। ज्ञानाकारान्यथानुपपत्याऽर्थाकारस्य कर्मणः सिद्धिरिति वदतां हि अयमाशयः। अर्थस्य प्रत्यक्षत्वनिराकरणपूर्वकमनुमेयत्वसमर्थनेन लोकेऽनास्थायां जातायाम्, अनन्तरं सम्बन्धानुपपत्त्यादिभिः अर्थस्यापह्नवे विज्ञानमेकमेवावशिष्यतेनि भिक्षुपादप्रसरणन्यायेन विज्ञानाद्वैत एव हार्दोऽभिमान इति । वक्ष्यत इति । नवमाह्निक इति शेषः ।। . सम्बन्धग्रहणं-व्याप्तिग्रहणम्। उक्तमर्थमुपपादयति - अर्थ इति । अर्थो हि नित्यानुमेयः, एवं तर्हि ज्ञानस्य अर्थस्य च कुत्र व्याप्तिग्रहणं सम्भवेदित्यर्थः। सति-गृहीते सति ॥
'प्रकाश-ख. कारणयो:-ख. ये हि-ख. 'रूपस्य-ख. तदाकार-क. साकारविज्ञानं-ख. ' नित्यानुमेये-क.