SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 40 प्रमाणपरीक्षा [न्यायमञ्जरी पमाने, शब्दश्रवणमिव तदर्थज्ञाने प्रमाणतां प्रतिपद्यते। अत एव बोधाबोधस्वभावा सामग्री प्रमाणमित्युक्तम् ॥ [बौद्धैकदेशिमतनिराकरणम् अन्ये तु तुल्यसामग्रयधीनयोः ज्ञानार्थयोः ग्राह्यगाहकभावं वदन्तः बोधं प्रमाणमभ्युपागमन् । क्षणभगिषु पदार्थेषु सहकार्युपादानकारणापेक्ष'श्रणान्तर'सन्ततिजननेन च लोकयात्रामुद्हत्सु. .. ज्ञानजन्मनि ज्ञानमुपादानकारणम् , अर्थः सहकारिकारणम; अर्थजन्मनि च अर्थः उपादानकारणं, ज्ञानं च सहकारिकारणमिति-ज्ञानं . च ज्ञानार्थजन्यम् , अर्थश्च अर्थज्ञानजन्यो भवतीत्येवमेकसामग्रन्य. धीनतया तमर्थमव्यभिचरतो ज्ञानस्य तत्र प्रामाण्यमिति । तदिदमनुपपन्नम् -- अफलजनकस्य प्रमाणत्वानुपपत्तरित्युक्तत्वात् । अपि च कर्मणि ज्ञानं प्रमाणमिष्यते। यथोक्तम् 'सव्यापारमिवाभाति व्यापारेण स्वकर्मणि' इति । स चायमर्थक्षणो ज्ञानसमकालः ततःपूर्वाभ्यां ज्ञानार्थलक्षणाभ्याम् उपजनित इति तत्कर्मतां प्रतिपद्यतां, न पुनः स्वसमानकालप्रसूतशानक्षणकर्मतामिति ॥ ननु च तुल्यसामग्रयधीनतया ममानकालतया च तदव्यभिचार सिद्धौ सत्यां क्व' कर्मत्वमुपयुज्यते ? हन्त तर्हि सहोत्पन्नयोः समानसामग्रीकयोः प्राग्राहकनियमः किंकृत इति वक्तव्य ? कर्मणीति। ज्ञानस्य हि प्रामाण्यम् विषययाथायें पर्यवस्यतीत्यर्थः । यथोक्तमिति। भवतैव प्रमाणसमुच्चये इति शेषः । तत्कर्मता-- पूर्वक्षणगतार्थक्षणकर्मकताम् । कारणस्य पूर्ववर्तित्वमेव, न समानकालिकत्वं इति भावः॥ क्वोपयुज्यत इति। ज्ञानार्थयोस्तु अन्यभिचारः सिद्धः, तुल्यकालत्वात् तुल्यसामग्रयधीनत्वाच्च । कर्मत्वं यत्किञ्चिन्निष्ठं भवतु, किमनया काकदन्तपरीक्षयेति भावः । सिद्धान्ती परीक्षाया. फलं विशदयनि-हन्त तीति । 'क्षणान्तरं-क. चारतो-क. वकर्मणा-ख. 'सिद्धों क-ख. वर्तव्य-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy