________________
39
आह्निकम् १] बौद्धामिमतप्रमाणस्वरूपनिरासः करणस्यैव प्रामाण्यमनुमन्यन्ते। यस्तु प्रमा प्रमाणमिति प्रमाणशब्दः, स प्रमाणफले द्रष्टव्यः। तथा च संशयविपर्ययात्मकं 'अप्रमाणफलमपि ज्ञानं आत्ममनोऽनुमाने तद्विशेषणार्थपरिच्छेदे वा विशिष्टप्रमा जननात् प्रमाणतां प्रतिपद्यते। अव्यभिचारादिविशेषणोपपन्नमपि ज्ञानमफलजनकं अप्रमाणमेव। केवलप्रमास्वभावं प्रमाणाद्विमिन्नं फलमिति प्रत्यक्षलक्षणे वक्ष्यामः॥ . . अथ व्यतिरिक्तफलजनकमपि बोधरूपमेव प्रमाण'मुच्यते-- • तदयुक्तम् - सकलजगद्विदितबोधेतरस्वभावशब्द लिङ्गदीपेन्द्रियादि
परिहारप्रसङ्गात् । तस्मात् सामग्रयनु प्रविष्टो' बोधः विशेषणज्ञानमिव क्वचित्प्रत्यक्षे, लिङ्गज्ञानमिव लिङ्गि प्रमितौ, सारूप्यदर्शनमियो
यस्त्विति। कुत्रचित् प्रयुज्यत इति शेषः। प्रमाणफल इति । तथा च अन्नं प्राणा इतिवत् प्रमाणजन्यायां प्रमायां प्रमाणव्यपदेश उपचारादिति भावः। , अस्य व्यवहारस्य मुख्यत्वे बाधकमप्याह-तथा चेति । ज्ञानेच्छादीनामात्मलिङ्गत्वेन, तत्र संशयविपर्ययज्ञानयोरप्यात्मानुमितिसाधनत्वेन तयोरपि प्रमाकरणत्वात् प्रमाणत्वप्रसङ्गः, सिद्धान्ते तु तदुभयव्यतिरिक्तत्वस्य प्रमाणलक्षणे निवेशितत्वान हानिरिति भावः। ज्ञानं इत्यस्य प्रमाणतां प्रतिपद्यत .इत्यनेनान्वयः। ननु यदि प्रमाकरणमेव प्रमाण, तदा कदाचिदनुमित्याद्यनुपधाय'कस्य न्याप्तिज्ञानादेः प्रमाणत्वं न स्यात् , तेन प्रमाया अजननादित्याशङ्कामिष्टापत्या परिहरति-- अव्यभिचारादीत्यादिना ॥
· व्यतिरिक्तति । प्रमाणव्यतिरिक्तन्यर्थः। अनुमित्यादिस्थले प्रमाणप्रमित्यो: बोधरूपत्वं भवनामपि सम्मतमिति भावः। परिहार प्रसङ्गादिति । शब्दलिङ्गादीनां ज्ञानरूपत्वाभावेन प्रमाणपदवाच्यत्वाभावप्रसङ्ग इति यावत् । सामग्रयनुप्रविष्ट इति । बोधाबोधात्मकत्वात् सामग्रया: बोधोऽपि प्रमाणतां प्रतिपद्यते, न बोधमात्रमिति । बोध इति। अस्य प्रमाणतां प्रतिपद्यत इत्यग्रिमेणान्वयः। क्वचित् - विशिष्टप्रत्यक्षे ॥
'प्रमाणफलमिति-ख. 'प्रमाण-ख. प्रमाण-ख. प्रविष्ट-ख. 'प्रतीतौ-ख.